SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ वक्रोक्तिसरः (९६) 305 अथ वक्रोक्तिसरः (९६) अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते । श्लेषेण यदि काका वा सा वक्रोक्तिरितीर्यते । यत्र अन्याभिप्रायकपुरुषान्तरोक्तस्यान्येनान्यथा यद्योजनं तदनुकूलोक्तिर्वक्राोक्तरित्यर्थः । सा च द्विधा, श्लेषेण काका वा अन्यथा योजनात् ॥ तत्र श्लेषेण यथा न क्रोधः कार्योऽम्बुधिसुते त्वया नाहमम्बुधिः कस्मात् । नकमधः कुर्यामिति गिरा हरिं जयति मोहयन्ती श्रीः ॥ १९२२ ॥ __अत्र क्रोधो न कार्य इत्यभिप्रायेणोक्तस्य भगवद्वाक्यस्य नक्रः अधःकार्य इति. भगवत्या श्रिया श्लेषेणार्थान्तरं कल्पितम् ॥ __ यथावा नयनाब्जं न्यस्येमयि न नयाम्यब्जं स एष तव हस्ते । इति वचसा निजदयितं विमोहयन्ती रमा तनोतु शुभम् ॥ १९२३ ॥ अत्र नयनाब्जं मयि न्यस्येः कटाक्षं निक्षिपेरिति भगवतोऽभ्यर्थनवचनस्य नय न अब्जमिति पदच्छेदन न नयाम्यजं किन्तु स एषः अब्जः शङ्खः तव हस्त एवास्त इत्यर्थान्तरपरिकल्पनम् ॥ ALANKARA-III. 39
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy