________________
304
यथावा
अलङ्कारमणिहारे
त्वद्विमुखोऽम्बुजलोचन महंशे मा जनिष्ट कश्चिदपि । विकलस्स्वयं लवङ्गस्सकलं वनमपि कदर्थयेन्नूनम् ॥ १९१५॥
अत्र ' मा जनिष्ट स नो वंशे' इत्युपक्रम्य ' आजन्मनिधनं यस्य वासुदेवो न दैवतम्' इति वचनैकदेशार्थसंग्राहके प्रपन्नवचने विकलस्स्वयं प्लवङ्ग इत्यान्ध्रदेशप्रसिद्ध लोकप्रवादोऽनुकृतः । तत्र सर्वेश्वरेश्वरे त्वयि वैमुख्यमश्नुवानः अतिचपलतया कपिप्राय एव । स हि अचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यभक्तिपरिपूर्णतया महावनमिवातिगभीरतमं स्वकुलमपि स्वदौरा - त्म्येनाकुलयेदित्यर्थान्तरमपि गर्भितम् ॥
यथावा-
ननु कस्मिन् वल्मीके वृजिनगतिः कीदृगस्तिवेति वदन् । सङ्गात्स्जनस्यापि त्रस्यति भगवंस्त्वदेकशरणो यः ॥ १९१६ ॥
वृजिनगतिः जिह्मगः । अत्रान्ध्रभाषाप्रसिद्धलोकप्रवादानु कृतिः । प्राकृतो जनस्तमोमयतया दुर्जन्तुसंवलिततया चातिभयङ्करो वल्मीकप्राय एव तस्मिन् वृजिनगतिः दुरितानुबन्धः कीडग्वेत्यर्थान्तरगर्भिता । अत्र -
अप्येकपङ्की नाश्रीयाड्राह्मणैस्स्वजनैरपि ।
को विजानाति किं कस्य प्रच्छन्नं पातकं भवेत् ॥ इति स्मृत्यर्थच्छायानुसृता ॥
इत्यलङ्कारमणिहारे छेकोकसरः पञ्चनवतितमः .