SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 296 अलकारमणिहारे दयितं सर्वलोकेश्वरं वा 'त्रिवध्यक्षेऽपि वल्लभः' इत्यमरः । घनं रत्नं कौस्तुभो यस्य स तथोक्तः । स चासौ श्रीवत्साङ्कः भगवान् त अनालोक्यापि कस्माद्धेतोः मां श्रियमेव पश्यसि । भगवन्तमपि पश्येति भावः । गूढार्थस्तु -हे कमन कामुक! वल्लभं मद्भर्तारं आलोक्यापि घना च सा रत्नश्रीश्च सा वत्से वक्षसि यस्यास्तां घनरत्नश्रीयुक्तं वत्सं यस्या इति वा। मा कस्मात्पश्यसि । मद्भर्तुस्समक्ष मा द्राक्षीरिति भावः । इदमपि परवञ्चनार्थगुप्ताविष्करणमेव ॥ त्रपागुप्ताविकरणं यथा स्मरदीनामेनां त्वं सुभगोविन्दावतप्तहृदयां माम् । नाथ विमशन्विविक्तामिति गोप्या शौरिरिङ्गिन्तमबोधि ॥ १९०२ ॥ स्मर दीनां एनां त्वं सुभगः विन्द अवतप्तहृदयां मां इति प्राथमिकार्थकक्ष्यायां पदच्छेदः । शोभनः भगः ऐश्वर्यादिषाड्गुण्यं यस्य सः सुभगः तस्य संबुद्धिः हे नाथ सर्वेश्वर! त्वं एनां मामिति भावः । दीनां स्मर । एषा कृपणेति जानीहीति भावः । अत एव अवतप्तहृदयां तापत्रयक्षुभितमानसां मां विन्द प्राप्तहि । रक्ष्यत्वेन स्वीकुरुष्वेति यावत् । स्वपरिग्रहे हेत्वन्तरं चाभिप्रयन्ती प्राह -विविक्तां पवित्रशीलां शरण्यान्तरचिन्तनासंवलिततया स्वच्छामिति भावः । 'विविक्तौ पूतविजनौ' इत्यमरः। विमृशन् सम्यग्विचारयन् विन्देत्यन्वयः गूढाभिप्रायपक्षे तु-स्मरदीनां एनां त्वं सुभ गोविन्द अव तप्तहृदयां मां इति छेदः । हे नाथ प्रिय ! सर्वानपि पुरुषार्थान् त्वमेव या- . चनीय इति भावः । हे गोविन्द ! त्वं स्मरेण दीनां अत एव
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy