SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ विवृतोक्तिसरः (९२) 297 तप्तहृदयां विरहतापशिथिलितमानसां एनां मां विविक्ता निश्श. लाकस्थानावस्थितां विमृशन इयमिदानी रहस्यवस्थितेति सम्य. ग्विजानन् अव प्रीणय । अवतेः प्रीणनार्थकाल्लोण्मध्यमैकवचनम् । अत्र स्फुटप्रतीयमानेन भगवदभ्यर्थनरूपेण त्रपया गुप्तस्य विवक्षितश्रीकृष्णसंभोगाभ्यर्थनरूपस्यार्थान्तरस्य इङ्गितमबोधीत्यनेन स्फुटीकरणम् । इदं शब्दशक्तिकोडीकृतगुप्ताविकरणम् ॥ ____ अर्थशक्तिमूलगुप्ताविष्करणं यथा - त्वं किल कृपानिधिमी प्रतीक्षमाणां दृशाऽपि नागृह्णाः । इति साकृतं ब्रुवती परिरब्धा शौरिणा ब्रजेन्दुमुखी ।। १९०३ ॥ त्वं किल कृपानिधिरिति विपरीतलक्षणा । कुत इत्यत्राहप्रतीति । प्रतीक्षमाणां चिररात्राय हृदयविपरिवर्तमानत्वदुपभो. गाशासनेन त्वां प्रतिपालयमानामिति भावः। दृशाऽपि नागृहाः । उपभोगप्रत्याशा तावदास्तां दूरे कटाक्षलेशप्रसारण वा न मामाद्रियथा इति भावः। कृपानिधिरेव न चेदेवं कुतस्तनुया इत्युपालम्भः । अत्र एवंविधा वचनभङ्गया चिरोत्काण्ठतत्वदुपभोगौपयिकसमयलाभेन त्वामहं प्रत्यैक्षिषि । स च न प्राप्त इत्यर्थशक्तिलभ्य वस्तु सातमित्यनेन विटतम् । सर्वमिदं कविनिबद्धवक्तृगुप्ताविष्करणोदाहरणम् ॥ कविगुप्ताविकरणं यथाप्रकृते प्रतीपदार्शनि निजैर्गुणैर्मी विमोहयसि नित्यम् । किंचिद्दयस्व वामे त्वयाऽवियुक्तो लभेय नित्यसुखम् ॥ १९०४ ॥ ALANKARA-III.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy