________________
294
अलकारमाणिहारे
तङ । 'श्लाघह्नङस्थाशपां शीप्स्यमानः' इति सम्प्रदानसंज्ञायां कृष्णशब्दाश्चतुर्थी ॥
यथावा
शिथिलयति करेणाग्रिमभागेऽन्दुकबन्धमेष पुनागः । हृष्येच्च तद्वशाऽसाविति शौरिगिरा नतानना गोपी ॥ १८९९ ॥
इयं गोपतरुणीपयोधरपरिष्वङ्गेच्छोर्भगवतश्शौरेः करेणुमुदिश्योक्तिः । एषः पुन्नागः मतङ्गजपुङ्गवः अग्रिमभाग पुरःप्रदेशे करेण शुण्डादण्डेन अन्दुकबन्धनं निगळबन्धं स्वस्य करिण्याश्वेति भावः । 'अन्दुको निगळोऽस्त्री स्यात्' इत्यमरः । शिथिलयति । तत् तस्मात् बन्धविस्रंसनाद्धतोः असौ वशा करिणी च ‘करिणी धेनुका वशा' इत्यमरः । हृष्येत् स्वैरविहारलिप्सया प्रमोदेत । गूढार्थस्तु-अग्रिमभाः गेन्दुकबन्धं इति छेदः । अग्रिमा श्रेष्ठा भाः दीप्तिः यस्य स तथोक्तः । एषः पुन्नागः पुरुषश्रेष्ठ इति स्वस्यैव साहसिकत्वप्रत्यायनायान्यत्वेन निर्देशः । करेण हस्तेन गेन्दुकयोः कन्दुकत्वेनाध्यवसितयोः पयोधरयोः बन्धं कञ्चळीबन्धनं शिथिलयति श्लथयतीति वर्तमानसामीप्ये भविष्यात वर्तमानवनिर्देशः । असो त्वमिति वक्तव्ये परवञ्चनायादश्शब्देन गोपिकाया निर्देशः । एवमनुपदवक्ष्यमाणतच्छब्दप्रथमपुरुषयोरप्यूह्यम् । तद्वशा तस्य कञ्चळीविरंसयितुर्ममेति भावः । वशा आयत्ता सती दृष्येत् । तिसुखेनानन्देदित्यर्थः । इति शौरिगिरा भगवद्वचनाकर्णनेनेति यावत् । गोपी नतानना अभूत् । इदमपि परवञ्चनाय गुप्ताविष्करणमेव ॥