SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ विवृतोक्तिसर : (९२) प्रत्यनुशासनरूपेण गुप्तस्य विवक्षितस्य श्रीकृष्णेन सहात्मनो यथेष्टविहारस्यार्थान्तरस्याभिकृष्णमित्यनेनाविष्करणात् ॥ यथावा 293 गोपालसमुद्येोगं त्वमेहि समया विलासयेमा गाः । पतिमिति वनमेष्यन्तं गोपी कृष्णाय ति ष्ठमानाऽऽह ॥ १८९८ ॥ इयं श्रीकृष्णेन सह रन्तुमुत्कण्ठितायाः कस्याश्विद्वोपका मिन्यास्स्वभर्तारं प्रति वञ्चनोक्तिः । तथाहि - हे गोपेति स्वभसंबुद्धिः । त्वं अलसं मन्दं उद्योगं प्रयत्नं एहि । दूरजिगमित्रायां हि महानुद्योगः कार्यः न तु संविधजिगमिषायामिति भावः । तदेतदाविष्कुर्वाणाऽऽह - इमाः गाः धेनूः समया समीप एव विलासय विहारय इति स्वभर्तारं प्रत्युक्तिः । गूढाभिप्रायपक्षे तु - गोपाल समुत् योगं त्वं एहि सः मया विलासये मा गाः इति छेदः । हे गोपाल ! सः त्वं इयन्तमवाधं मया प्रतीक्षितस्त्वमिति भावः । समुत् विविक्तविहरणस्य प्रत्यासन्नत्वात्सानन्दस्सन् मया सह योगं संगतिं पहि रत्यर्थ मदुपान्तं प्राप्तहीति भावः । सहसा त्वदुपान्तोपसर्पणे त्वं मां विलासयेर्वा न वेत्याशङ्कां परिहर्तुमाह - विलासये इति । रतिसुखवितरणेनानन्दये इति भावः । विलासवन्तं करोमीति वा । मा गाः अतस्त्वमिदानीमन्यतो मा ब्राजीः । गच्छत्वेष पतिः पशुपालनाय । आवां स्वैरं रंस्यावहे इति भावः । इदमपि परवञ्चनाय गुप्तस्याविष्करणम् । कृष्णाय तिष्ठमाना स्वाभिप्रायं प्रकाशयन्तीत्यर्थः । तिष्ठतेः ' प्रकाशनस्थेयाख्ययोश्व' इति
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy