SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 292 अलंकारमणिहारे अथ विवृतोक्तिसरः (९२). विवृतोक्तिश्श्लेषगूढं विवृतं कविना यदि ॥ श्लेषेण गुप्तोऽर्थो यथाकथंचित्कविना स्वोक्त्या आविक्रियते चेत्सा विवृतोक्तिरित्यर्थः । इयमपि दीक्षितोपशम् ॥ यथा एषा चरति सुखेन हि सुरभी रविजाप्रतीरजानगता । पाल्या त्वयेत्यवादीदक्षिकृष्णं काऽपि गोपिका गोपम् ॥ १८९७ ॥ एषा सुरभिः गौः ‘सुरभिर्गवि च स्त्रियाम् । वसन्तचैत्रयोः पुंसि त्रिषु सौम्यमनोयोः' इति रत्नमाला । रविजायाः यमुनायाः प्रतीरजाः तरव इति यावत् । तेषु अनुगता सती सुखेन चरति तृणमिति शेषः । कबळयतीत्यर्थः । संचरतीति वा । त्वया पाल्या यथा अन्यत्र न यायात्तथा प्रतिपालनीये. त्यर्थः । हार्दोऽर्थस्तु-सुरभिः सुगन्धिः । अनेनास्थाः पद्मिनीजातित्वं सूचितम् । सौम्या मनोज्ञा वा । कोशस्तूतः । एषा च अहमपीति भावः । कामपारवश्येनात्मन एव पारोक्ष्येण निर्देशः । न केवलमितरा एवं महिलाः । किंत्वमहपीति चशब्दाभिप्रायः । रविजाप्रतीरे यमुनातटे जानुगता त्वद्रूपनिविष्टा सती । रतिसुखेन त्वया पाल्या प्रीणनीयेति यावत् । इति काऽपि गोपिका अभिकृष्णं कृष्णाभिमुखं अवादीत् । इदं परवञ्चनाय गुप्तस्याविष्करणम् । प्रतीयमानार्थान्तरण कंचिद्गोपं
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy