SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ गूढतिसरः (९१) 291 न्धानाय निर्दिष्टतया विच्छित्तिविशेषसद्भावेन पारिशेष्यान्ढो. क्तिरित्यलङ्कारान्तरमेव युक्तमाश्रयितुम् । न चात्र तटस्थातिसं. धानरूपव्यङ्गयस्य स्वोक्तयाऽविष्करणविरहाद्धनिरेवायं नालङ्कार इति वाच्यम, श्लेषतस्तस्यार्थस्याविष्करणेन ध्वनेरसम्भवादि. त्याहुः ॥ यथावा करुणाचित्तभवतापाल्या परिदीनमानसा सेयम् । नान्यत्काङ्क्षति नाथ त्वदपाङ्गविलासलाभवैभवतः ।। १८९६ ॥ हे करुणाद्रचित्त हे नाथ जगदीश्वर! परिदीनमानसा सेयं तन्वी । त्वदपाङ्गविलासलाभवैभवतः स्वत्कटाक्षप्रसरणावाप्तिविभवात् अन्यत न काङ्क्षति । अतः भवता त्वया पा ल्या रक्षणीयेति भगवन्तं प्रति प्रार्थना । गूढार्थस्तु-हे करुणाद्र हे नाथ वल्लभ ! चित्तभवतापात्येति समस्तं पदम् । चित्तभवतापानां मनसिजतापानां आल्या पङ्क्तया कन्दर्पज्वरपरंपरयेत्यर्थः । परिदीनमानसा सेयं तन्वी । त्वदपा)त्यत्र त्वदिति भिन्नं पदं पञ्चम्येकवचनान्तम् । त्वत् त्वत्तः अपाङ्गः अनङ्गः तस्य विलासः रतिरित्यर्थः। तस्य लाभः प्राप्तिरेव वैभवं त. स्मात् तत्तः । अन्यत् न काङ्क्षति । अत्र नाथेति नन्दनन्दनं सम्बोध्य तस्माद्रतिमेव प्रार्थयमानायाः कस्याश्चिद्वजललनायास्तटस्थवश्वनाय भगवन्तं प्रत्यात्मनस्संसारतापदीनत्वेन कटाक्षमात्राशंसनस्य प्रत्यायनम् ॥ इत्यलङ्कारमणिहारे गूढोक्तिसर एकनवतितमः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy