SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 290 अलङ्कारमणिहारे यथावा--- त्वं वत्सजातलालस आयातस्तजिघृक्षुरसि बाढम् । अविदूरे चरति प्रियं एष ततो गोपबाल किं त्वरसे ॥ १८९५ ॥ इदं वक्षोजग्रहणोत्सुकं भगवन्तं नन्दनन्दनं प्रति वक्तव्यं गोवत्सग्रहणौत्सुक्यशालिनं सविधभुवि सञ्चरन्तं वल्लवमाणवकं कश्चिनिर्दिश्य कयाचिद्गोपकामिन्या कथ्यते । हे गोपबाल वल्लवकुमार! पक्षे हे कृष्णेति संबुद्धिः । त्वं वत्से तर्णके जाता लालसा औत्सुक्यं ‘लालसे प्रार्थनौत्सुक्ये' इत्यमरः । आयातः । अन्यत्र त्वं वत्सजातयोः वसोजयोः 'वत्सः पुत्रादिवर्षयो । तर्णके नोरासे क्लीबम्' इति मेदिनी । लालसः उत्सुकस्सनित्यर्थः 'लोलुपो लोलुभो लोलो लम्पटो लालसश्च सः' इति त्रिकाण्डशेषः । आयात. तजिघृक्षुः तप्काहेच्छुः वक्षोजगहेच्छुश्च । असि । तं जिघृक्षुः तौ जिघृक्षुरिति च विग्रहः 'न लोक' इति षष्ठीनिषेधेन कर्मणि द्वितीयायां 'गम्यादीनामुपसंख्यानम्' इति समासः । बाढं साध्वेतदित्यङ्गीकारे । एष प्रियः प्रीत्यास्पदभूतो वरप्तः । पक्षे एष प्रियः मद्भर्ता अविदूरे उपकण्ठ एव चरति तृणं भक्षयतीत्यर्थः । 'चरतिक्षिणेऽपि' इत्यनुशा. सनात् । पक्षे सञ्चरति । कुतस्संत्वरसे मोत्सुको भूरिति भावः । न हुनन्दनन्दनं प्रति वक्तव्ये प्रस्तुते अप्रस्तुतान्यगोपमाणवकवृत्तान्तवर्णनादप्रस्तुतप्रशंसैवेयमिति चेन्न, कार्यकारणसामान्य. विशेषसारूप्यैरनभिव्यज्यमानत्वात् । नापि प्रकृताप्रकृतश्लेषमात्र, तत्र प्रस्तुतार्थस्य प्रस्तुतार्थोपमानभावेन विवक्षाऽस्ति । नेह तथा अप्रस्तुनार्थस्य विवक्षा । अत्राप्रस्तुतस्य केवलमन्याति ।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy