________________
गूढोक्तिसर: (९१)
289
यथातत इत इह संभ्रमतः कुत इव विचिनोषि नन्दसुत गां त्वम् । काळिन्दीतटकुले कामं दीव्यति हि तत्र सुलभैषा ॥ १८९३ ॥
इति काचिद्रूजललना गां निजयूधच्युतां विचिन्वानम् । पृच्छन्तं नन्दसुतं कामयमाना जगाद साकूतम् ॥ १८९४ ॥
इति । तस्मादस्माभिः प्रागुदाहृतेषु ‘परतरुर्णाहारिद्रच्छुरितकपोलम्' इत्यादिषु येषु भावाविष्करणमस्ति तेष्वेव तत्त दलंकार इति ॥
इत्यलंकारमणिहारे व्याजोक्तिसरो नवतितमः
अथ गूढोक्तिसरः (९१)
गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥
यं प्रति किंचिद्गदितव्यं तन्माज्ञासिषुस्तटस्था इति तदितरं यकंचित्प्रति यत् श्लेषणोच्यते तत् गूढोक्ति मालंकारो दीक्षितोपक्रमम् ॥
ALANKARA-LIII