________________
288
अलङ्कारमणिहारे
"नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः । इति मम संकेतभुधि ज्ञात्वा भावं तदाऽब्रवोदाळीम्" ॥
इति प्राचीनपद्य इव
पश्यात्र निश्चलतमा मराळमालाऽमलाब्जमालेव । इत्याळी काऽप्यवदच्छौरेस्संकेतभावमधिगम्य ॥ १८९२ ।।
इत्यादिष्वस्मदीयपद्येष्वपि सूक्ष्मालंकार: प्रसरति । अत्र पद्ये तावत् आवयोः किं संकेतस्थानं भविष्यतीति प्रश्नाशयं सूचयति भगवति नन्दनन्दने तदभिज्ञया विदग्धया व्रजसुन्दर्या सखी प्रति साकृतमुक्तमिति भवति सूक्ष्मालंकारः। यतोऽत्र हंसमालाया निश्चलतमपुण्डरीकमालिकोपमया तस्यास्तत्र निस्सन्दतया साश्वासत्वं तेन तस्य प्रदेशस्यातिमात्रविविक्तत्वं तेन तदेवावयोस्संकेतस्थानमिति तं प्रति सूचन लक्ष्यते। न चात्र ध्वनिराशङ्कनीयः व्यङ्गयपरंपरया व्यज्यमानस्यापि संकेतस्थानप्रश्नोत्तरस्य स्वोक्तयैवाविष्कृतत्वात् । एवं हि पिहितालंकारेऽप्युदाहार्यम् ॥
इदं चान्यदत्रावधेयम्-“तत इत इह संभ्रमतः । किं चिन्तयसे भद्रे । का त्वं का वा किं तव । पुरतो नन्दकिशोरे । स्वकरधृतं लिखिति नखैः” इत्यादिप्रागुपदर्शितगूढोत्तरसूक्ष्माद्यलंकारोदाहरणेषु भावो न स्वोक्तयाऽऽविष्कृतः। किंतु वस्तुसौन्दर्यबलाद्वक्तृबोद्धव्यविशेषविशेषिताद्गम्यः । तत्रैव वस्तुतो नालंकारत्वं, ध्वनिभावास्पदत्वात् । प्राक्तनैस्स्वोक्तयाऽऽविष्करणे सत्यलंकारास्पदताऽस्तीत्युदाहृतानि “यत्रासौ वेतसी पान्थ' इत्यादीनीति तदनुसारिभिरस्माभिरपि तथाविधान्युदाहृतानि पद्यानि । शक्यं ह्येषामुदाहरणानामुत्तरश्लोककल्पनया भावाविष्करणम् ॥