SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ व्याजोक्तिसरः (९०) 287 यथा प्रतिवातविलुलितं मम धम्मिल्लमिमं समीकुरुष्व सखि । इति यमुनातटकुञ्जादेत्य सखीं काऽपि गोपिकाऽलापात् ॥ १८९० ॥ अत्र नन्दनन्दनकृतस्वैरोपभोगविलुलितस्य धम्मिलस्य प्रतिवातविलुलितत्वव्याजोक्तया गोपनम् । “छेकापह्नतेरस्याश्चायं विशेषः-तस्यां वचनस्यान्यधानयनेनापह्नवः, अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति । लक्षणे लक्ष्यनानि चोक्तिग्रहणमाकारस्य गोपनार्थ हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षणम् । ततश्च आयान्तमालोक्य हरिं प्रतोळ्यामाळ्याः पुरस्तादनुरागमेका। रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूहे प्रणमन्त्यथैनम् ॥ इत्यत्रापि व्याजोक्तिरेव । अत्र ह्यनुरागतस्य रोमाश्चाद्याकारस्य भक्तिरूपहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम्" इति कुवलयानन्दे दीक्षिताः । ततश्च यमुनातटकुञ्जाइजमुपयान्ती केतकीस्तबकहस्ता । न्ववपुषि शौरिनखक्षतमगृहत स्वैरकेळिजं गोपी ॥ १८९१ ॥ इत्यत्रापि तन्मते व्याजोक्तिरेव । अत्र हि स्वैरकेलिप्राप्तस्य भगवन्नखविलेखनरूपाकारम्य कण्टकप्रचुरकेतकीनिकुञ्जप्रवेशरूपहेत्वन्तरप्रत्यायकेन तत्कुसुमस्तबकग्रहणेन गृहनं कृतम् । वस्तुतस्तु अत्र युक्तयलंकार एवेति युक्त यलंकारनिरूपणावसरे वक्ष्यते । सूक्ष्मपिहितालंकरयोरपि चेष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy