________________
286
अलङ्कार मणिहारे
इत्युदाहरणयोर्लक्षणसत्तामुपपादयन्तः पिहितनामानमलंकारान्तरं नानुमेनिरे । युक्तं चैतत् - अलंकारान्तरकल्पना वैचित्रयहेतोस्साकूतचेष्टितविन्यसनस्य भेदाभावे आशयवृत्तान्तरूपप्रकाश्य भेदमात्रेण भेदानुपपत्तेरिति वदन्ति । अत्र 'यत्सूक्ष्मस्यार्थस्य संलक्षणमात्रं प्रकाशनमात्रं वाऽप्ययमेवालंकारः' इत्यलंकारभाष्यकाराशयं व्यवृणुत विमर्शिनीकारः । तदेदमुदाहरणम् --
लीलासदनकवाटे लोलेऽपाने पयोधिबालायाः । वल्लभमात्रसहाया यथा रमा स्यात्तथाऽभ वन् सख्यः ।। १८८९ ॥
अत्र सखीभिः श्रियो वल्लभोपभोगौत्सुक्यं संलक्षितं केळी. गृहवाटे कटाक्षविसारणेन प्रकाशितं चेत्युभयार्थ सहितत्वम् । तदेवमादौ सुक्ष्मालंकार एव वाच्यः, सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनाऽवस्थानात् । यद्यपि संलक्षितमात्रमपि लक्ष्म्या औत्सुक्यं सखीभिर्विविक्ततया बहिर्निर्गमनेन चेष्टितेन प्रकाशितम् । तथाऽपि सखीनां तदौत्सुक्यसंलक्षणमात्रमेवात्र चमकारि । न तु सखीबहिर्निर्गमनचेष्टितमित्यस्यालंकारतोल्लासः ॥ इत्यलंकारमणिहारे पिहितसर एकोननवतितमः .
-
अथ व्याजोक्तयलङ्कारसरः (९०)
हेत्व तरोक्तया व्याजोक्तिर्यदाकारस्य गूहनम् ॥
निगूढस्य वस्तुनः केनचित्प्रकटतां गतस्य हेत्वन्तरोक्तय यद्वोपनं तत् व्याजोक्तिर्नामालंकारः ॥
•