SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पिहितसरः (८९) 285 यथास्विनाननमायातं प्रातर्निजसद्म वीक्ष्य नन्दसुतम् । लघुलयललितं व्यजनं करकिसलयतोऽग्रहीतं राधा ॥ १८८७ ॥ लघुलयं लामजकम् । सर्वरात्रं नायिकान्तरसंभोगेन श्रान्तोऽसीति वीजयामीति लामजकतालवृन्तग्रहणाकूतम् ॥ यथावा परतरुणीहारिद्रच्छुरितकपोलं निरीक्ष्य यदुबालम् । पिहिताकारा भैष्मी पाणौ मणिदर्पणं ददौ तस्य ॥ १८॥ . अत्र हरिकपोले हरिद्राचूर्णलेपनेनानुमितं रजन्यां तव सपत्नीसदने स्वैरविहारं जानाम्यहमित्याकूतगर्भ तत्करकमले रुक्मिण्या दर्पणदानरूपं चेष्टितं निबद्धम् । पिहिताकारेत्यनेन सूचनीयालंकारनामसूचनरूपमुद्रालंकारोपस्कृतत्वं पूर्वस्माद्वशेषः ॥ इदं कुवलयानन्दानुरोधेन । सर्वर्वकारादयस्तु-'संल. क्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम्' इति स्थूलमतिभिरसंलक्षणीयः कुशाग्रमतिभिस्संलक्ष्यते यस्सूक्ष्मार्थः तस्य विदग्धं प्रकाशनमिति सूक्ष्मार्थत्वेन पराशयवृत्तान्तयोः क्रोडीकारेण लक्षयित्वा संकेतकालमनसं विटं ज्ञात्वा विदग्धया । आसीनेत्रार्पिताकृतं लीलावगं निमीलितम् ॥ वक्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दष्ट्वा भिन्नं कुङ्कुमं काऽपि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्तीव तस्यास्स्मित्वा पाणी खड्गले खां लिलेख ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy