________________
284
अलङ्कारमणिहारे
यथावास्वकरधृतं लिखिति नखैलिकुचफलं नन्दनन्दने पुरतः । वल्लवललना मौक्तिकवल्लीमामल्लते स्म धम्मिल्ले ॥ १८८५ ॥
- इदमपि भगवतश्श्रीकृष्णस्य स्वैरविहारसङ्केतसमयानुयोगभावं जानानायाः ब्रजललनायाश्चेष्टितं तमलि तारकोल्लासे सङ्केतसमय इत्याकूतगर्भम् ॥
यथावा-- व्यालाचलशैलेन्दौ नीलाकुचकलशयुगळलोलदृशि । सा रमणी स्मेरमुखी श्रीरमणोरःप्रसारिनयनाऽऽसीत् ।। १८८६ ॥
अत्र स्वकुचयुगलनिरीक्षणभगवञ्चेष्टितेन स्वोपभोगौत्सुक्यरूपं तदाकूतं जानानाया नीलायाः श्रीनिवासवक्षस्थलवीक्षणरूपं चेष्टितं तत्र श्रीसांनिध्यरूपप्रतिबन्धकसद्भावप्रदर्शनाकृतगर्भम् ॥
इल्यलङ्कारमणिहारे सूक्ष्मसरोऽष्टाशीतितमः.
अथ पिहितालंकारसरः (८९)
परवृत्तज्ञसाकृतचेष्टितं पिहितं मतम् ॥ परकीयव्यापारवेत्तुस्साकूतचेष्टितं पिहितं नामालंकारः ॥