________________
सूक्ष्मसरः (८८)
283
कृतं व्यञ्जनामूलमेवेति, तर्हि तयोः श्लेषमूलकार्थान्तरगर्भत्वे चित्रप्रश्नविशेष एव नात्तगलकार इत्येष्टव्यं, विच्छित्तिविशेषसद्भावात् । इहाप्युत्तरनिबन्धस्तु उत्तरालंकारे प्रश्ननिबन्धवञ्चारुतातिशयहेतुरिति दिक् ॥
इत्यलंकारमणिहारे चित्रप्रश्नसरस्सप्ताशीतितमः. .
अथ सूक्ष्मालङ्कारसरः (८८)
अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते ।
अन्याभिप्रायमिङ्गिताविना सातवतोऽन्यस्य साकृतस्तद्विषयको व्यापारस्सूक्ष्मं नामालंकारः ।।
यथा
पुरतो नन्दकिशोरे करकलितमनोज्ञकन्दुके मिषति । सुन्दरमौक्तिकरदना मन्दं हसति स्म गोपशशिवदना ॥ १८८४ ॥ ____ अत्र गृहीतकन्दुकनन्दनन्दनसन्दर्शनलक्षणेनेङ्गितेन तदीयपयोधरग्रहाभिसंकेतसमयानुयोगाभिप्रायं विदितवत्या गोपसुदत्या तदानुकूल्येन प्रसरन्त्यां चन्द्रिकायां सङ्केतसमय इति तदुत्तर स्वहृदयगतं व्यञ्जयितुं मन्दहासव्यापारो व्यरचीति लक्षणानुगतिः॥