________________
282
अलकारमणिहारे
त्तिं ते तव तनवानोति प्रश्नः, हे कान्ते! अभीप्सितां नवरतसंपलं ते तनवानीत्यर्थान्तरगर्मितः । हे घनभ! मेघाम अविरत सततं मे अभीप्सितं भाग्यं यदि वितरसि तर्हि कृतार्थत्युत्त. रम् । हे घन! मे अभीप्सिा चिरकालप्रार्थितं भावि भविष्यत् रतं सुरतरूपं भाग्यं यदि वितरसि तर्हि कृतार्था निर्दृत्ताभीप्सितप्रयोजनेत्यभिप्रायगर्भम् ॥
अत्रेदमवधेयम्-प्राक्तनमतानुरोधेनास्मदुपदर्शितोत्तरालंकारप्रकारभेदेषु सत्त्वपि बहुषु चित्रोत्तरगूढोत्तररूप। तदलंकारप्रकारप्रभेदी द्वावेव कुवलयानन्दकारैरुपात्तौ। तन्मतानुरोधेनालंकाराग्निबध्नाद्भिः कौस्तुभकारैर्वेङ्कटायैस्तत्प्रतिद्वन्द्वितया चित्र प्रश्नप्रकारद्वयमभिनवं परिकल्पितम् । तदिदमस्माभिरपि प्रदशितम् । यदित्वत्र अन्यार्थगर्भप्रश्नरूपो द्वितीयः प्रकारो निबअसाभिप्रायनिरभिप्रायान्यतरोत्तरस्स्यत् तर्हि तत् प्रागुपदर्शिते प्राचां मते उत्तरालंकारोदाहरणभेव भवेत् । एवंच ‘भामामणि व्यपनयन, सुतराङ्गविभोऽगं त्वम्' इत्युपदर्शितयोः पद्ययोरुत्तरानुपनिबन्धात्प्रश्नमात्रस्य साभिप्रायत्वाञ्च चित्रप्रश्नोदाहरणत्वमेव । अस्य प्राथमिकप्रभेदे प्रदर्शितेषु का कारुण्यनिधिः' इत्यादिपद्येषूत्तरोपनिवन्धपन्तरेण एकस्य प्रश्नस्य प्रश्नान्तराभिनप्रश्नताया दुर्विज्ञानतया तदुपनिबन्धावश्यभावेऽपि प्रश्नमात्रस्यैव निराकूतत्वेऽपि श्लेषवशेन वैचित्र्यप्रकाशनात्प्राचीनोपदशितोत्तरालंकारव्याहत्तश्चित्रप्रश्नालंकार एव । ‘कान्तारमयेत्कामाम्' इत्यादिपद्यद्वये तु साभिप्राययोः प्रश्नोत्तरयोरुभयोरपिनिबद्धत्वादुत्तरालंकारप्रभेद एव । प्रथमतरं प्राचीनरीत्या प्रदर्शितेषूदाहरणेषु साभिप्रायत्वं व्यङ्गयमर्यादया, अनयोस्तु श्लेषमहिम्नति वैलक्षण्यम् । अथ मतं-- उत्तरालंकारे प्रश्नोत्तरयोरा