SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ चित्रप्रश्न सरः (८७) निरवधिकं सुखं त्वं व्रजसि । तत्र हेतुमाह- मां एवमभिलषमाणां मां एहि प्राप्नुहि । अत्राप्युपपादितरीत्या प्रश्नस्यार्थान्तगर्भता द्रष्टव्या । कचित्प्रश्नोत्तरयोरुभयोरप्यर्थान्तरगर्भत्वे चारुतातिशय इति तैरेव कौस्तुभकारैः प्रत्यपादि । तस्येदमुदाह रणम् 281 कान्तारमयेत्का मां तत्सरणिं वद यया सुखं यायाम् । इति पृच्छति नन्दसुते सुगमेयमिति काऽपि गोप्याह ।। १८८२ ॥ । कान्तारं महावनं प्रति का सरणिः अयेत् गच्छेत् मां तत्सराणं तां पदवीं वद 'चित्रब्रू शासुजेि' इति द्विकर्मकता । यया सरण्या सुखं निर्बाधं यथा स्यात्तथा यायां गच्छेयं इति मार्गविषयकः प्रश्नः । का कान्ता मां रमयेत् तत्सरणि तस्थाः प्राप्तयुपायं वद । यया कान्तया उपायेन वा सुखं रतिसुखं यायामित्यर्थान्तरगर्भः । इयं सरणिः सुगमा सुखन गम्येति मार्गप्रश्नस्योत्तरम् अर्थान्तरस्य तु इयं यां त्वं मार्ग पृच्छासे सेयं अहमित्यर्थः । इह अत्रैव सुगमा सुखेन गम्या सती रमयति निश्शलाकत्वादस्य प्रदेशस्येति ॥ यथावा - कान्तेऽनवरत संपदमभीप्सितां कोमलङ्गि तनवानि । घनभाविरतं भाग्यं वितरसि मेऽभीप्सितं यदि कृतार्था || १८८३ ॥ अयं श्रीकृष्णगोपिकयोः प्रश्नोत्तररूपः श्लोकः । अत्र हे कोमल नि ! अभीप्सितां कां अनवरत संपदं अविच्छिन्नां संप ALANKARAIII. 36
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy