________________
280
अलङ्कारमाणहारे
अन्यार्थगर्भितप्रश्नरूपो द्वितीयश्चित्रप्रश्नो यथा
भामामणि व्यपनयन् कामाकुलतां मुदं तव विदध्याम् । कामपि गोपीमेवं पृच्छन् साकूतमवतु नन्दसुतः ॥ १८८० ॥ __अत्र आकुलतां व्यपनयन् तव कां मुदं विदध्यामिति प्रश्नः तव कामाकुलतां कन्दर्पव्याकुलत्वं व्यपनयन् मुदं विदध्यामित्यर्थान्तरगर्भः॥
यथावासुतराङ्गविभोऽगं त्वं स्वामिन् कमितः परं व.
मामेहीति सभावं माधवमत काऽपि गोपवधूः ॥ १८८१॥
अत्र प्राथमिकार्थे-सुतराङ्ग सुतर अङ्ग इति वा विभो अगं त्वं स्वामिन् कं इतः परं व्रजसि उच्चैः मा मा इहि इति छेदः । सुतराङ्ग हे शोभनगात्र सुन्दरेत्यर्थः । अथवा सुनर कल्याणतर । अङ्गेत्यव्ययं संबोधने । विभो व्यापनशील स्वामिन् ! इतःपरं अस्मात् शैलात् सुगमादिति भावः। अन्य उच्चैः उन्नतं दुरारोहमिति भावः। कं अगं शैलं व्रजसि गच्छसि। मा मा इहीति योजना। मा मा स्म गमः मा मेतिवीप्सा सर्वात्मना निषेधार्था । अर्थान्तरे तु सुतरां गवि भोगं त्वं स्वामिन् कमितः परं व्रजसि उचैः मां एहि इति छेदः । हे गवि स्वामिन् गवामधीश! गोपालोत्यर्थः । ‘स्वामीश्वराधिपति' इत्यादिना स्वामिशब्दयोगात् गोशब्दस्य सप्तमी। हे कमितः हे कमन! कमेस्तृचि संबुद्धिः। आर्धधातुकत्वेन आयादेशस्थ वैकल्पिकत्वादिह तदभावः । सुतरां अत्यन्तं परं श्रेष्ठं उच्चैः