SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ चित्रप्रश्नसरः (८०) 279 यथावातापत्रयातुराणां भवेन्नराणां भुवीह काराका। . असतां संगतिरेका सारविदां संगतिस्ततामन्या ॥ १८७८ ॥ अत्र उत्तरार्धप्रतिपादितयोरुत्तरयोः काराकति प्रश्नान्तराभिन्न एक एव प्रश्नः। कारा बन्धनालयः तद्वदतिशयितदुःखहेतुः केति प्रथमप्रश्नस्यार्थः । का राका पूर्णनिशाकरा पूर्णिमा तद्वत्तापही केति द्वितीयप्रश्नस्यार्थः ॥ यथावा--- कालीका वृषगिरिपतितनुरथ तद्विमुखवदनवी. क्षा च । काशङ्का न्यक्चके तत्कीर्तिस्तत्परत्वविषया च ॥ १८७९ ।। अत्र पूर्वार्धे कृषगिरिपतितनुः तद्विमुखवदनवीक्षा चेत्युत्तरद्धयस्य कालीकेत्येक एव प्रश्नः । काळी श्यामला का इत्येकस्य प्रश्नस्यार्थः । का अलीका अप्रियेत्यन्यस्य । उत्तरार्धे तु तत्कोर्तिः तत्परत्वविषया चेत्युत्तरद्वयस्य काशङ्का न्यक्चक्रे इत्येक एव प्रश्नः। काशं काशकुसुमं का न्यक्चक्रे इति प्रथमप्रश्नस्य । द्वितीयस्य का शङ्का संशयः न्यक्चक्रे तिरस्कृता इत्यर्थः । भगवत्कीर्तिः काशं न्यक्करोति स्म । भगवत्परत्वविषया शङ्का अवधीरिताऽस्माभिरित्युत्तरयोरभिप्रायः । चक्रे इति प्रथमे प्रश्न कर्तरि लिट् । द्वितीये तु कर्मणि इति ध्येयम् । पूर्वत्र प्रश्नान्तराभिन्नः प्रश्न एकः। अत्र तु द्वौ प्रभावितिविशेषः।..
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy