SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 274 अलंकारमाणिहारे त्रिभुवनजननाय त्रिलोकीसर्जनाय कः पुरुषः पुमान् प्रगल्भतेति प्रश्नः । किं नु ब्रूयामिति अजानत इवोत्तरम् । त्रिभुवनजनानां नायकः अधीशः पुरुषः ‘अथ पुरुषो ह वै नाराय. णोऽकामयत प्रजास्सृजेयेय' इति श्रुतः भगवान्नारायणः प्रगल्भेतेत्युत्तरान्तरं च ॥ यथावा-- कान्ते प्रीतिं विदधात्वात्मन्ययमिति कृतां स्वदयितेन । पच्छामेवोत्तरयविडम्बयन्तीव सस्मितं लक्ष्मीः ॥१८६७ ॥ . अयं त्वद्वशवर्तीति साभिनयं स्वस्य निर्देशः । ते आत्मनि मनसि कां श्रीतिं विदधात्विति प्रश्नार्थः । कान्ते वल्लभे आत्म नि त्वयि विषये अयं त्वमिति भावः । प्रीतिं मम विदधातु इत्युत्तरार्थः । त्वद्विषयकप्रीत्या विना नान्या मम मनसि प्रीति. रपेक्षणीयोति भावः । अत्रापि प्रश्नोत्तरयोरभिन्नवाक्यनिबद्धत्वम् ॥ यशावा ममैव रङ्गराजविलासे मोदं वह सखि मे वद को दण्डधरो दशानन· कुलस्य । इति काचिच्चतुरा निजपतिना पृष्टोनरं तदेवाह ॥ १८६८ ॥ दशाननकुलस्य दण्डधरः क इति प्रश्नः कोदण्डधर इत्युत्तरं चाभिन्नवाक्यगतम् ॥ यथावा-- सौमित्रिणा दशास्यस्वसुर्मुखे ब्रूहि काऽसिना
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy