________________
उत्तरसरः (८६)
275
लूना। जानासि पठ विलोमं पृच्छायां कासिनेति वर्णास्त्वम् ॥ १८६९ ॥
अत्र कासिनति प्रश्नो विलोमपठित उत्तरतां प्रपद्यत इति वैचित्रयं विशेषः । ईशान्युदाहरणानि ममैव श्रीनिवासविलासनृसिंहविलासादिषु प्रबन्धेषु भूयांसि द्रष्टव्यानि ॥
एवं प्रश्नाभिन्नोत्तररूपश्चित्रोत्तरालंकारो निरूपितः । उत्तरान्तराभिन्नमुत्तरं यथा-- ___ स्वाराज्ये कीहक्षः पुनरस्थापि श्रिया सहस्राक्षः । अथ पर्यभवन्दैत्यांस्तद्विमुखान्का निगद्यतां विपदः ॥१८७०॥ - अत्र प्रश्नवयस्यापि विपद इत्येकमेवोत्तरम् । विगतं पदं स्वाराज्यस्थानं यस्येत्येकवचनान्तविपदशब्देन प्रथमप्रश्ने इन्द्रविशेषणतया योजितेनोत्तरम् । द्वितीये तु विपदः आपदः इति बहुवचनान्तेन विपच्छब्देनोत्तरमिति ध्येयम् ॥
अनिलात्मभरिवरगिरिनिलयस्य चकास्ति कीदृशो विभवः । तत्तनुरुचिकालिना नुत्तमदाः के निगद्यतामलयः ॥ १८७१ ॥
अत्र श्रीनिवासस्य विभवः कीदृश इति तद्विग्रहश्यामलिना निरस्तमदाः के इति च प्रश्नद्वयस्यापि अलय इति उत्त. राभिन्नमुत्तरम् । आये अलयः लयरहितः नित्य इत्यर्थः । द्वितीये अलयः भ्रमरा इत्यर्थः॥