________________
उत्तरसर : (८६)
273
यथावा-
पुरुषः फणधरशिखरिण कस्तूरीकृतललामको भाति । ब्रूहि सखे किं ब्रूयामुत्तरमत्रानुयोग
एव स्यात् ।। १८६४ ॥
कः तु ऊरीकृतललामकः इति प्रश्नपक्षे छेदः । तुशब्दः प्रशंसायां भेदे वा । तु पादपूरणे भेदे समुच्चयेऽवधारणे । पक्षान्तरे वियोगे च प्रशंसायां विनिग्रहे' इति मेदिनी । फणधरशिखरिणि एतेषु पुरुषेषु कः पुरुषः पुनः ऊरीकृतललामकः प्रशस्ततया भातीति प्रश्नः । कस्तूर्या कृतललामकः विरचितविशेषकः पुरुषो भगवान् श्रीनिवास एव भातीत्युत्तरं तदभिन्नं निबद्धम् । 'ललामं पुच्छपुण्ड्राश्वभूषाः 'प्राधान्यकेतुषु '
इत्यमरः ॥
यथावा-
हरिणा द्विरसन कुलपतिगिरिधानाऽनायिका निजं वक्षः । इति यः प्रश्नस्तस्य स्वयमुत्तरतां स एव बत धत्ते ।। १८६५ ॥
द्विरसनकुलपतिगिरिधाम्ना हरिणा निजं वक्षः का अनायति प्रश्नः । नायिकानायीत्युत्तरमभिन्नवाक्योद्गीर्णम् । नायिका दायता श्रीः वक्षः अनायि प्राप्यतेत्यर्थः ॥
यथावा
सत्यं ब्रूयात्पुरुषस्त्रिभुवनजननाय कः प्रगल्भे त । किंनु ब्रूयां पुरुषस्त्रिभुवनजननायकः प्रगहमेतं ।। १८६६ ॥
ALANKARA—III,
35