SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 272 भगवान् संकल्पमात्रेणैव कङ्क चेतनं, विस्मये वीप्सा । तथाचोक्तं अलंकारमणिहारे - प्रतिज्ञायां प्रशंसायां प्रलापे तर्जनेऽपि च । भये च विस्मये चैव पौनःपुन्यमलंकृतिः ॥ इति । शाश्वतैश्वर्यमनैत्रीदिति प्रश्नः कङ्कं गृध्रविशेषं जटायुषमनैषीदित्युत्तरं प्रश्नाभिन्नं निबद्धम् । कङ्कमित्यत्र वा पदान्तस्य' इति वैकल्पिकः परसवर्णः ॥ - यथावा मृदी का परिभूता मृड्या स्वाया मुकुन्दवाचेति । पृच्छामेवोत्तरतामनयत कस्यापि कोऽपि कविराजः ॥ १८६२॥ अत्र मृद्वी मृदुः का परिभूतेति प्रश्नस्य मृद्वीका द्राक्षा परिभूतेति तदभिन्नमुत्तरम् ॥ यथावा कमलं करोति हस्ते कमला कमलालया परिष्कारम् । इत्यनुयुक्ता काचन सख्या चित्रोत्तरं तदेवाह ।। १८६३ ॥ कमलालया पद्मगेहा कमला श्रीः हस्ते अलं कं परिष्कारं अलंकारं करोतीति प्रश्नः । कमलं पद्मं करोतीति तदभिन्नमुत्तरं पद्मं परिष्कारं करोतीत्यर्थः । चित्रोत्तरमित्यलंकारस्य सूच्यस्य सूचनान्मुद्रालंकारस्त्वत्र विशेषः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy