________________
उत्तरसर : ( ८६ )
तत्रैवोत्तरस्य साकूतत्वे सकृदुपादाने चमत्कृतिर्यथालभ्येत किमङ्ग सुमं द्युमणितनूजा तटद्रुकुञ्जेषु । सुलभतमं तत्र सुमं भवादृशां मृगदृशामपि नताङ्गि । १८६० ॥
अत्र लभ्येत किमङ्गेत्यादिप्रश्नः कयाचिद्रजललनया ऋजुबुद्धया भगवन्तं यशोदानन्दनं प्रति कृतो निराकृतः । सुलभतममित्यादि भगवत उत्तरं तु तत्र संभोगस्वाच्छन्द्याकूतगर्भम् । आक्तविरहे असकृदुपादानकृतश्चमत्कारः क्व गमिष्यसीत्यत्र गदित एव । प्रकारान्तरेणाप्यस्य भेदास्संभवन्ति । पद्यान्तर्वर्तित्वेन पद्यबहिर्वर्तित्वेन तावद्वैविध्यम् । तत्त्राद्यस्याभिन्नवाक्योद्गीर्णत्वभिन्नवाक्योद्गीर्णत्वाभ्यां पुनद्वैविध्यम् । पद्यान्त
तिपद्यबहिर्वर्तिनोर्द्वयोरप्युत्तरयोस्सकृच्छन्द श्रुतिपर्यायत्वेन रा ब्दावृत्तिपर्यायत्वेनानेकेषां प्रश्नानामेकपद निवेदितोत्तरत्वेन प्रकारान्तरैश्च बहुप्रभेदत्वमित्यालंकारिकशेखरो रसगङ्गाधरकारः । अयमेव प्रभेदश्चित्रोत्तरमिति दीक्षितैः पृथगुक्तः ॥ चित्रोत्तरमलंकारः प्रश्नाभिन्नोत्तरं भवेत् । ग्रच्चोत्तरान्तराभिन्नमुत्तरं तदपीष्यते ॥ प्रश्नाभिन्नमुत्तरं उत्तरान्तराभिन्नमुत्तरं च चित्रोत्तरमित्यु
च्यते ॥
271
यथा
कङ्कमनैषीद्भगवान् संकल्पेनैव शाश्वतैश्वर्यम् । इति पृच्छते तदेवोत्तरमिति कस्मैचिदाह कवि
रकः ॥ १८६१ ॥