SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 270 अलङ्कारमाणिहारे यथा क्क गमिष्यस्यहिशैलं किं तत्रास्त्यद्भुतं परं तत्वम् । तत्कीहक् सश्रीकं का श्रीर्यस्या विभूतिरखिलमिदम् ॥ १८५८ ॥ __ अत्रः किं तत्रास्तीति प्रश्नः अहिशैलमित्युत्तरश्रवणादुद्गत इत्युन्नीत उच्यते। आद्यः प्रश्नत्स्वनुनी तोऽपि उत्तरोत्थापनार्थ निबद्ध इति । एवंचास्मिन्मते प्राग्दर्शितान्युनीतप्रश्नोदाहरणान्यनुदाहरणान्येव । अलंकारस्यास्य द्वैविध्यमपि न प्रश्नस्योन्नीतत्वनिबद्धत्वाभ्यां, किंतून्नीतत्वानुन्नीतत्वाभ्यां ज्ञेयम् । वस्तुतस्तु प्रश्नोत्तरयोराकूतगर्मत्वे तावतैव चमत्कारान्नासकृदुपादानापेक्षा। आकूतविरहे तु, असकृदुपादानकृतश्चमत्कारोऽपेक्ष्यते निबद्धप्रश्ने। आक्षिप्तप्रश्ने तु प्रश्नाक्षेपकृतं चमत्कारं यदि मन्यन्ते सहदयाः तदा सकृदुपादानेऽप्यलंकारत्वमस्तु ॥ तत्र निवद्धप्रश्ने प्रश्नस्य साकूतत्वे सकृदुपादानेऽपि चमकारो यथा सल्लपसि चेत्समुखि ते वदनात्किं मौक्तिकानि विगळन्ति । सल्लापं नागरकं वल्लव्यो वयमिमाः क विद्मोऽङ्ग ॥ १८५९ ॥ ____ अत्र सल्लासि चेदित्यादिप्रश्नः भगवता नन्दनन्दनेन कृतस्संभोगाभिमुख्यसंपादनाकूतगर्भः । सल्लापं नागरकमित्यादिकमुत्तरं तु ऋजुबुद्धया वल्लव्या दत्ततया निराकूतमेव । वदनाक मौक्तिकानि विगळन्तीति लोकोक्तिः ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy