SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उत्तरसरः (८६) 269 यथावाध्येयं किं ब्रह्म परं ज्ञेयं किं तत्स्वरूपरूपगुणम् । गेयं किं तस्य यशः पेयं किं तदभिधाननिभममृतम् ॥ १८५६ ॥ . . स्वरूपरूपगुणमिति समाहारद्वंद्वः । आभिधानमिति निभो व्याजो यस्य तत् । अत्र सर्व प्रश्ना निबद्धाः । प्रश्नोत्तरयोरुभयोरपि पूर्ववनिरभिप्रायतैव ॥ ___ का त्वं का वा किं तव गच्छस्येकाकिनीति प. च्छामि । त्वं किल बहुसाह्यकरः पृच्छति गोविन्द वेनि तव वचनम् ॥ १८५७ ॥ .. ___ अत्र का त्वमिति कृष्णस्य प्रश्नस्स्वोपभोगार्हताभिप्रायगर्भः। का वा किं तवेति गोपकामिन्या उत्तरं किं वृथाप्रश्नमात्रेणेत्य. भिप्रायगर्भम् । गच्छस्येकाकिनीति पृच्छामीति पुनः कृष्णस्य प्रश्नस्तु स्वाच्छन्द्यसौकर्याभिप्रायकः । त्वं किलेत्यादिसोपालम्भोत्तरं तु त्वं केवलवायत्रचपलः न तु स्वैरविहारसाहसिक इत्यभिप्रायगर्भम् । इदं च पद्यं चतुर्णामपि निबद्धप्रश्नभेदानामुदाहरणतामहति वक्तृवैदग्ध्यावैदग्ध्यव्यवस्थयेति ॥ अत्र जगन्नाथः-अलंकारे ह्यस्मिन् प्रश्नोत्तरगतमसदुपनिबद्धत्वं जीवातुः, तथैव चमत्कारोदयात् । तेन सकृत्प्रश्नस्य सकृदुत्तरं नालङ्कारभूमिः । न चीनीतप्रश्नोत्तरे अव्याप्तिः । उन्नीतस्य प्रश्नस्यैकत्वादनुपनिबन्धाश्चोत्तरस्याप्येकत्वादिति वाच्यम् । प्रश्नगतमुन्नीतत्वमत्रोत्तरेणाक्षिप्तत्वं न विवक्षितम् । किंतु प्रश्नोत्तरपरंपरायां प्राचीनोत्तरश्रवणजन्यत्वमात्रमित्यभाणीत् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy