SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 268 अलङ्कारमणिहारे गात् । अत्र प्रश्नोत्तरयोरुभयोरपि निरभिप्रायता, यथाऽवस्थितार्थज्ञाननिवेदनपरत्वात् ॥ यथावा भगवद्भागवतार्चनहेतोस्तृणमपि न जातु वितरेयम् । इति यदि कृतः परः पण एष हि कृपणः कदर्यपर्यायः ।। १८५४॥ इति परः अतिशयितः पणः कृतो यदि येनैव प्रतिज्ञा कृतेत्यर्थः । एष हि अयमेव कृपणः इतोऽप्यन्यः कः कृपण इति भावः । अमुमेव विशिनष्टि - कदर्येति । अर्यो वैश्यः 'अयेस्स्वामिवैश्ययोः' इति निपातितोऽयम् । कुत्सितश्चासावर्यश्च कदर्थः ' को कत्तत्पुरुषेऽचि' इति कोः कदादेशः । तस्य पर्यायः स एवायं रूपान्तरमापन्न इति भावः । वैश्य एव निसर्गतः कृपणः तत्रापि कुत्सितत्वे तस्य कार्पण्यं किमु वक्तव्यमिति भावः । पक्षे पणः पणशब्दः कृतः कृवर्णात् आद्यादित्वात्पञ्चम्यास्तसिः सः परः अनन्तरभावी यदि एष एव कृपणः कृपणशब्दः कदर्यपर्यायः कदर्य शब्दपर्यायतया पठितः । ' कदर्ये कृपक्षुद्रार्कपचानमितं पचाः' इति । अत्र कः कृपण इति प्रश्न उन्नेयः । प्रश्नोत्तरयोर्द्वयोरप्यनाकूतत्वं च पूर्ववदेव उपदर्शितचमत्कारस्तु विशेषः ॥ तत्रैव निबद्धप्रश्नमुत्तरं यथा गन्तव्यः कोऽहिगिरिर्मन्तव्यं किं वृषाद्रिपतिचरितम् । नन्तव्यः कोऽब्जाक्षो रन्तव्यं चैतदभिमते देशे ।। १८५५ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy