________________
विशेषकसरः (८५)
265
अत्र मुक्तानां भगवतश्च भेदतिरोधानाभावेऽपि चतुर्भुजत्वेन साहश्याद्विशेषास्फुरणे प्राप्ते लक्ष्मीस्फुरदुरस्कत्वेन भगवतो विशेषस्फूर्विशेषकः॥
यथावा
सममसितासु स्वरुचा कमलादिषु नाथ दिव्यमहिलासु । सरसिजसौरभविभवाभावे पद्मा त्वयाऽपि दुरवगमा ॥ १८५० ॥ . अत्र भगवत्याः पद्मायाः स्वगुणत्यागपूर्वकभगवच्छयामालमग्रहणरूपतद्णालङ्कारत्यिा दिव्यमहिलान्तरसाधारणे नीलि. मनि तद्धतकमलसौरभेण विशेषस्फूर्तिरिति पूर्वस्माद्विशेषः । इमौ द्वावप्यलंकारौ दीक्षितोपक्रमे एव ॥ - प्राञ्चस्तु-“भेदवैषम्ययोः स्फूर्ती नालंकारद्वयं कल्प्य किंतूकालंकाराभावमात्रं, भेदवैजात्यस्फुरणयोः स्वतस्सिद्धतया कविप्रतिभागोचरतामूलकवैविध्यविरहात् । न च मीलितसामान्य. रीतिभ्यां भेदविशेषस्फूर्ती तदपवादवर्णनकृतवैचित्र्यसद्भाबादलंकारान्तरकल्पनं युक्तमिति वाच्यं, तावता वैचित्र्याभावतादवस्थ्यात्' इत्याहुः । पण्डितराजस्तु इमामनुमानेऽन्तीवयति स्म ॥
इत्यलंकारमाणिहारे विशेषकसरः पञ्चाशीततमः.
ALANKARA.III.
34
.