________________
264
अलङ्कारमणिहारे
अत्र नीलगुणसाम्येन भगवहिव्यविग्रहरुचिपूरभेदानध्यवसाये प्राप्ते शैशिर्येण निमित्तेन यमुनायास्ततो भेदस्फूर्तेरुन्मीलितम् ॥
तद्गुणरीत्या भेदानध्यवसायप्राप्तावपीदं दृश्यते। यथावाशीतद्युतिविद्योतैः श्वेतद्वीपति चराचरे निखिले । रासविलासे माधवमेणडशो वेणुनादतोऽन्वबुधन ॥ १८४८॥
अत्र भगवतस्स्वनीलिमपरित्यागपूर्वकचन्द्रज्योत्स्नाविशदिमगुणग्रहणलक्षणतद्गुणालंकारप्रापितभेदानध्यवसायोपनतो वेणुनादेन निमित्तेन भगवतस्ततो भेदस्फुरणम् । अन्वबुघन्नित्यत्र 'बुधिर् बोधने' इत्यस्माद्भौवादिकालङ् । इदित्त्वात् च्लेरङ् । प्रयोगश्च–'स च काकुत्स्थ नाबुधत्' इति ॥
इत्यलंकारमणिहारे उन्मीलितसरश्चतुरशीतितमः.
अथ विशेषकसरः (८५) द्वयोवैधर्म्यसंस्फूतौ तुल्ययोस्स्याद्विशेषकः ।
भेदतिरोधानाभावेऽपि सादृश्याद्विशेषास्फुरणे प्राप्ते केनचिन्निमित्तेन विशेषस्फूर्ती सामान्यप्रतिद्वंद्वी विशेषकः ॥
त्वत्कृपया मुक्तानां चतुर्भुजत्वादिलक्ष्मणि समाने । वक्षस्स्थितया लक्ष्म्या त्वां किल निश्चिन्व- . तेऽभिनवमुक्ताः ॥ १८४९ ॥
यथावा---