________________
अतद्गुणसर : (८०)
253
यथा
विदलित वलरिपुमणिवरकान्ते फणिशैलनाथहृदयान्ते । अपि सततकृतनिवासा नासादयसेऽम्ब किंचिदपि नैल्यम् ॥ १८२८ ॥
यथावा
शुचितर फणिवररुचिभरशोणफणामणिमरीचिनिचयेन | निचुलितरुचिरपि नितरां फणिशयन जहासि नासितत्वं स्वम् ।। १८२९ ॥
यथावा
परिहितमप्यनवरतं पीताम्बरमम्बुजाक्ष भवतेदम् । न जहाति पीततां स्वां परिदधदपि तद्भवानसिततां च ॥ १८३० ॥
यथावा -
अपि कमलानिलय हरे त्वद्रुचिकमलारुची मिथो मिळिते । प्रविविक्ते एव भृशं भातो यमुनासरस्वतीतुल्ये ।। १८३१ ॥
अत्राद्योदाहरणे परगुणाग्रहणं शाब्दम् । स्वगुणत्यागाभाव अर्थः । अनन्तरयोरुदाहरणयोः स्वगुणत्यागाभावश्शाब्दः । पर गुणाग्रहणं त्वार्थम् । अनयोरपि द्वितीयोदाहरणे पीताम्बरभगवतोः ते परस्परमिति विशेषः । तुरीयोदाहरणे तूभयमध्यार्थ मित्यवधेयम् ॥