________________
252
अलंकार मणिहारे
इत्यादिप्रमाणादिति भावः । प्रतकिन अवयवेन शरीरेणेति यावत् । मुक्तोऽपि प्रतीकान्मुक्तोऽपीति वा । एतद्देहप्रहाणपूर्वकं निश्श्रेयसं प्राप्तोऽपीति यावत् । ऐक्यं तस्य भगवतः अभेदं कदाचिदपि न भजेत् न प्राप्नुयात् । किंतु ताहगेव तत्सदृश एव स्यात् । 'निरञ्जनः परमं साम्यमुपैति ' इति परम साम्यश्श्रवणात् । अनेन -
यथोदकं शुद्धे शुद्धमासिक्तं ताहगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥
इति श्रुत्यर्थो वर्णितः । अस्याश्श्रुतेरयमर्थः -- शुद्धे शुद्धं जलं प्रक्षिप्तं तत्सदृशमेव भवति न तु किंचिदपि विसदृशम् । एवं मनननिदिध्यासनशीलस्यात्माऽपि परमात्मसदृश एवेति न त्वभेदं प्राप्नोति तादृक्छब्दश्रवणात् । तादृक् छन्दस्तत्सदृशवाची । सादृश्यं च भेदद्घटितमेवेति । किंच ताहगेव सदादास एव स्यात् न तु स्वयं सर्वशेषीति भावः । पक्षे सदादासशब्दः प्रतीकं प्रतिप्रतिलोमं यथास्यात्तथा 'प्रतिकूले प्रतीकं स्यात्' इत्यमरः । उक्तोऽपि पठितोऽपि तादृगेव सदादास एव स्यात् न तु विभिन्ना नुपूर्वीक इति भावः । अत्रापि पूर्वावस्थानुवर्तनं पूर्ववदेव । इंद पूर्वरूपप्रकारद्वयमपि जयदेवोपज्ञम् ॥
इत्यलंकारमणिहारे पूर्वरूपसर एकोनाशीतितमः .
अथातगुणसरः (८०)
अतगुणं संगतान्यगुणानङ्गीकृतिं विदुः । गुणवत्सन्निधावपि तदीयगुणानङ्गीकारो ऽतद्गुणालंकारः ॥