SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ पूर्वरूपसरः (७९) 251 यथावाविपरीतदशायामपि विशिष्टवर्णा गिरां तव समानाः। सारसरसास्सुधाम्बुधिसुते न जहति स्ववर्णपरिपाटीम् ॥ १८२६ ॥ ___हे सुधाम्बुधिसुते! इदं तद्वाचोमाधुर्यातिशयं द्योतयितुम् । विशिष्टः श्रेष्ठः वर्णः येषां ते ब्राह्मणवर्णा इत्यर्थः। प्रशस्ताक्षरा इति तु तत्त्वम् । अतएव तव गिरी समानाः मानसहिताः त्वद्वाचा बहुमानिता इति यावत् । माधुर्येण त्वद्वाक्तुल्या इति तत्त्वम् । सारसरसाः पद्मरसाः मकरन्दाः, साराः श्रेष्ठाः सरसाश्चेत्यप्युपस्कार्यम् । अतएव विपरीतदशायां धर्मविपर्याससमयेऽपि स्ववर्णपरिपाटी ब्राह्मणवर्णोचितक्रमं न जहति । यथापुरमेव वर्तन्त इति भावः । वस्तुतस्तु प्रातिलोम्येन पठनावसरेऽपि स्ववर्णानां निजाक्षराणां परिपार्टी अनुक्रमे न जहति । सारसरसा इत्यस्यानुलोमविलोमपठनयोस्तुल्यानुपूर्वीकत्वादिति भावः । अत्र पूर्वावस्थानुवृत्तिश्शब्दार्थतादात्म्यमूलकश्लेषोजीवितेति विशेषः ॥ यथावा निखिलजगच्छेषिण इह संप्रति शौरभवन् सदादासः। नैक्यं भजेत्कदाऽपि प्रतीकमक्तोऽपि ताहगेव स्यात् ॥ १८२७ ॥ निखिलजगच्छेषिणः शौरेः संप्रति अधुना एतदेहसंबन्धितादशायामिति यावत् । सदादासो भवन् जनः दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy