SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 250 अलंकारमणिहारे अन्नं विश्राणयते । बतेत्याश्चर्ये । परिहारस्तु गुणस्य सूदस्य भावः गुणता सुष्टु गुणता सुगुणता। पाकाशक्षितसूदत्वमित्यर्थः तया 'गुणो मौामप्रधाने रूपादौ सूद इन्द्रिये । त्यागशौर्यादिस. स्वादिसंध्याद्यावृत्तिरज्जुषु' इति मेदिनी । अन्नं विश्राणयति विस्राविता श्राणा यावागूः यस्य तत्तथोक्तं करोति परगृहे अन्नविस्रावयिता पाचको भवतीति भावः ॥ ‘यवागूरुष्णिका श्राणा' इत्यमरः । अत्रापि पूर्वावस्थाऽनुवृत्तिश्श्लेषेण वर्णिता ॥ यथावाकश्चिविजाग्रगण्यो मनुष्यधर्माधिकश्रियं शौरे। अवलम्ब्य तव कटाक्षायस्सुखगोऽभवत्किल विचित्रम् ॥ १८२४ ॥ विजाग्रगण्यः विहगश्रेष्ठः विप्राग्रणीः कुचेल इति तत्वम् । मनुष्यधर्मैः मनुजधर्मैः अधिकां कुबेरादप्यधिकामिति वस्तुस्थितिः भूयः पुनः सुखगः शोभनो विहगः भूयः भूरि यत् सुखं तद्गच्छतीति तथोक्त इति वास्तवार्थः। अभवत्। किलेत्यैति।। स्पष्टमन्यत् । अत्रापि पूर्वावस्थाऽनुत्तिर्दशिता ॥ यथावाविध्वस्तदशमुखश्रीविभीषणवशंगताऽपि बत लङ्का । अभिवृद्धबहुमुखश्रीरासीद्रघुवीर तेजसा भवतः ॥ १८२५॥ - अभिवृद्धा बहुमुखस्य दशाननस्य श्रीः यस्याः नानाविधा समृद्धिरस्या इति तु तत्त्वम्। सर्व प्राग्वत् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy