SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ पूर्वरूपसरः (७९) 249 ळितनिगळ: ऐरावणः ऐरावतः तस्य उद्भटविलासैः दशमुखावस्थानावसरे तहोर्दण्डप्रतापशोषितमदतयाऽवस्थित ऐरावतस्तस्मिन्नस्तमिते प्ररूढमदतया निरर्गळप्रचारोऽजनीति भावः । अत्र दशमुखशमनेऽपि दिवः पूर्वावस्थानुवृत्तिश्श्लेषोजीविता ॥ यथावा असमाधिक एव भवन पुरा मुरारेऽथ तव पदं प्रेप्सुः। दधदपि समाधिमुच्चैरसमाधिक एव भवति बत मनजः ॥ १८२२ ॥ असमः आधिर्यस्य सः अविद्यमानस्समाधिर्थस्य स इति च । असमाधिक एव असहशाधियुक्त एव । समाधिरहित एव । निस्समाभ्यधिक एवेति च । अत्रापि असमाधिकत्वरूपपूर्वावस्थानुए. त्तिश्श्लेषगर्भिता ॥ यथावाप्रविसरति तव कटाक्षे विश्राणयतेऽनमम्ब सुगुणो यः। अपि तस्मिन्विकले बत विश्राणयतेऽनमेष सुगुणतया ॥ १८२३ ॥ हे अम्ब! तव कटाक्षे प्रविसरति सति यः पुमान् सुगुणः स श्लाघ्यस्स गुणी धन्यस्स कुलीनस्स बुद्धिमान् । स शूरस्स च विक्रान्तो यं त्वं देवि निरीक्षसे ॥ इत्युक्तरीत्या कल्याणगुणवान् सन् अन्नं विश्राणयते वितरति 'श्रण दाने' चौरादिकादस्मात्स्वार्थे ण्यान्ताल्लट् । एष पुमान् तस्मिन् तव कटाक्षे विकलेऽपि स्वस्मिन् परावृत्तेऽपि सुगुणतया ALANKARA__III. 32
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy