________________
अलङ्कारमणिहारे
काज्ञानस्य अतिशयिततिमिरस्य च श्रीः विभवः अन्यत्र सत्तमा अतिशोभना 'सत्तमश्चातिशोभने ' इत्यमरः । श्रीः ज्ञानादिसंपत् मुक्तैश्वर्ये वा अनुवर्तते । अत्रापि श्लेषमहिम्ना तमसि गळितेऽपि तदनुवृत्तिर्दर्शिता ॥
248
यथावा
प्रागम्ब तव कटाक्षाद्येषां कण्ठेषु सतरळाहाराः । पश्चादपि हन्तासंस्तेषां कण्ठेषु सतरळा
हाराः ॥ १८२० ॥
हे अम्ब! तव कटाक्षात्प्राक् कटाक्षप्रसरणात्पूर्व येषां जनानां कण्ठेषु गळबिलेषु सतरळाः तरळया यवाग्वा सहिताः आहाराः निहीनाभ्यवहारा इत्यर्थः । आसन् पश्चादपि त्वत्कटाक्षप्रसरेण संपदुत्कर्षलाभादनन्तरमपि तेषां कण्ठेषु सतरळाहाराः उक्ताभ्यवहारा एव । पक्षे ग्रीवासु सतरळा: मध्यमणिसहिताः हाराः मुक्तावळ्यः आसन् । हन्तेत्याश्चर्ये ' तरळं चञ्चले षिद्वे भास्वरेऽपि त्रिलिङ्गकम् | हारमध्यमणौ पुंसि यवागूसुरयोस्स्त्रियाम् ' इति मेदिनी । अत्रापि सतरळाहारा इति श्लेषेण पूर्वावस्थावृत्तिर्दर्शिता ॥
यथावा --
दशमुखशमनात्चिदिवक्षोभे दशरथसुतेन शमितेऽपि । संकुलिता द्यौर्बत मदविशृङ्खलैरावणोनटविलासैः ॥ १८२१ ॥
द्यौः स्वर्गः मदेन विशृङ्खलैः निरर्गलैः रावणस्य दाशाननस्य उद्भटविलासैः संकुलिता संबाधिता । पक्षे मदेन विशृंखलः विग