________________
254
अलङ्कारमणिहारे
___न चान्यगुणेनान्यत्र गुणोदयानुदयरूपाभ्यामुल्लासावशालंकाराभ्यां तद्गुणातद्गुणयोगतार्थतेति वाच्यम् । उल्लासावशालक्षणघटको गुणशब्दो दोषप्रत्यनीकवाची। अन्यगुणेनान्यत्र गुणोदयानुदयौ च न तस्यैव गुणस्य संक्रमासंक्रमौ । किंतु सदाचार्योपदेशेन सदसच्छात्रयोर्बोधोदयानुदयवत्तद्गुणजन्यतया संभावि. तयोर्गुणान्तरयोरुदयानुदयो। तद्गुणातद्गुणयोस्तु गुणशब्दो रूपरसगन्धादिवााची। तत्रान्यदीयगुणग्रहणाग्रहणे च रक्तस्फटिकवसनमालिन्यादिन्यायेनान्यदीयगुणेनैवानुरञ्जनानुरजने विवक्षिते तथैव च दर्शितान्युदाहरणानि । एवंच प्रदर्शयिष्यमाणे उदाहरणे नातद्गुणालंकारः। किंत्ववज्ञालंकार एव ॥ __ शतकोटितोऽपि शतकोट्यधिककठोरे फणीन्द्रगिरिशिखरे । निवसन्नप्यविरतमिह नैष्ठ्य नाथ नानषे कापि ॥ १८३२ ॥
अत्र कठोरतारूपगुणस्यानुपरजकत्वात्तदनङ्गीकारो नातद्गुणः॥ यथावानिहिताऽपि विधौ प्रसभं न हि तादृशशुद्धिमेति चपला धीः । वृद्धाऽपि समानतया न सैरिभी भजति सौरभीवृत्तिम् ॥ १८३३ ॥
विधौ भगवति चन्द्रे च । निहिताऽपि धीः ताहशी तत्प्रा. प्यनुगुणां विधुसदृशीं च शुद्धि नैमल्यं विजातीयप्रत्ययासंवलितत्वमिति यावत् । पक्षे धवलिमानं नैति हि। कुत इत्यत्राहचपलेति । चपलत्वादेवेति भावः । समानतया वृद्धाऽपि सौर