SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ रत्नावळसिरः (७७) 241 प्रलयसरस्वति वटदळशयितस्त्वमदीदृशस्वमहिमानम् । मार्कण्डेयमुनेश्श्रुतिसुभगङ्गेयं पुरा फणिगिरीन्दो ॥ १८०६ ॥ इदमुपाख्यानमरण्यपर्वणि प्रसिद्धम् । अत्र 'इमं मे गले यमुने सरस्वति' इति संबुद्धयन्ततया क्रमेण श्रुतौ पठितानां गङ्गायमुनासरस्वतीनां सर्वात्मना व्युत्कमेण न्यसनं पूर्वोभ्यो विशेषः ॥ यथावा दुरितोपसंहृतिचणा रविमर्शविकासिपद्मग;न्धे। तटगान्प्रति मुखरमुखभ्रमरा सौनातिकी वृषाद्रिनदी ॥ १८०७ ॥ रवेः मर्शः स्पर्शः तत्करस्पर्श इति यावत् । तटगान् तीरस्थान् प्रति सौनातिकी सुस्नानप्रष्ट्री ‘पृच्छतौ सुनातादिभ्यः' इति ठक् । सुनातान् पृच्छतीति विग्रहः । अत्र “मुस्खं प्रतिमुसं गर्भस्लावमर्शोपसंहतिः' इति प्रसिद्धक्रमपाठानां मुखादीनां पञ्चानां नाटकसन्धानां सर्वात्मना व्युत्क्रमेण न्यसनम् । गम्योत्प्रेक्षासंकर्णिमिति च विशेषः ॥ यमनियमासनदक्षप्राणायामा हरे भवत्पारिपदाः। प्रत्याहरन्ति यमभटगृहीतमपि नामधारणादेव ॥ १८०८॥ हे हरे! अनेनब्रह्माणमिन्द्रं रुद्रं च यनं वरुणमेवच । प्रसह्य हरते यस्मात्तस्माद्धरिरितार्यते॥ ALANKARA-III. 31
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy