SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 240 अलंकारमणिहारे एतच्च ‘श्वसो वसीयश्श्रेयसः' इति सूत्रे कौमुदीग्रन्थे स्पष्टम् । सुखदं लोकेशेशविभूतीनां कारणं यनिरीक्षणम्' इत्युक्तेः । विपुलं च तत् स्त्यानऋतुभुग्वासष्ठसुखदं चेति विशेषणोभयपदकर्मधारयः। यद्वा विपुलं अतिशयितं स्त्यानं आलस्यं दुर्वासश्शापज नितस्वाराज्यभ्रंशप्रयुक्तमपाटवं यस्य स तथोक्तः ऋतुभुग्वसिष्ठः इन्द्रः तस्य सुखदमिति तव नयनयुगं मे मम गिरः सदा स्तुवता स्तुवन्तु । अत्र मरीचिमत्रयङ्गिरसौ पुलस्त्य पुलहं तुम्।। वसिष्ठं च महातेजास्सोऽसृजत्सप्त मानसान् ॥ इति पुराणोक्तानां महर्षीणां किंचित्क्रमातिलङ्घनेन न्यसनम् ॥ यथावायसैष ‘सार्वभौमेनैरावतकुमुदपुष्पदन्तरुचा ते । लोकोऽजननायक सुप्रतीक वामन सुपुण्डरीकाक्ष सितः ॥ १८०५ ।। हे वामन! स्वेच्छागृहीतवामनावतार। हे सुप्रतीक आ प्रणखात्सर्व एव सुवर्णः' इत्युक्तप्रकारदिव्यमङ्गळविग्रह ! हे सुपुण्डरीकाक्ष ! शोभनं यत्पुण्डरीकं तदिव अक्षि यस्य तस्य संबुद्धिः । सुशब्देन गम्भीराम्भस्समुद्भूतसुमृष्टनाळरविकरविकसितत्वरूपः 'तस्य यथा कप्यासम्' इति श्रुतिस्थकप्यासशब्दार्थस्सर्वोऽपि संगृहीतः। अञ्जननायक अजनाख्यगिरिनेतः ऐरावतः कुमुदपुष्पं दन्तः गजदन्तः तेषां रुगिव रुक् प्रभा यस्य तथोक्तेन सार्वभौमेन सर्वभूमौ विदितेन ते यशसा जगत् सितं शुभ्रमिति योजना । अत्र 'ऐरावतः पुण्डरीकः' इत्युक्तानां दिग्गजानां क्रमातिलानम् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy