________________
रत्नावळीसरः (७७)
239
यथावा
पुष्कलशाल्मलिजम्बूप्लक्षः क्रौञ्चकुशमेदुरः फणिशैलः आक्रान्तमहाशाकस्सप्तद्वीपाधिको जयत्ययमेकः ॥ १८०३ ॥
पुष्कलाः अतिशोभनाः ‘पुष्कलस्स्यात्सत्तमश्वातिशोभने' इत्यमरः । शाल्मलिजम्बूप्लक्षाः दृक्षविशेषाः यस्मिन् सः । क्रौञ्चैः पक्षिविशेषैः कुशैः दर्भः जलैर्वा मेदुरः आक्रान्ताः स्वाभोगेन व्याप्ताः महत्यः आशाः दिशः येन स तथोक्तः ‘शेषाद्विभाषा' इति कप के णः' इति प्राप्तस्य हस्वस्य ‘आपोऽन्यतरस्याम्' इति विकल्पितत्वादाशाशब्दस्य न हस्वः। अयं फणिशैलः एक एव सप्तद्वीपाधिको जयति । अत्र — जम्बूप्लक्षकुंशक्रौञ्चशाकशाल्मलिपुष्कलाः इति पुराणादिषु सहपठितस्य द्वीपसप्तकस्य क्रमातिक्रमेण न्यसनम् । सप्तद्वीपपदेन सूच्यार्थसूचनं च ॥
यथावा-
स्तवताङ्गिरस्सदा मे मरीचिमत्रियुगसपलहर्षकरम् । विपुलस्त्यानकतुभुग्वसिष्ठसुखदं तवाम्ब नयनयुगम् ॥ १८०४ ॥ __ हे अम्ब! मरीचिमत् अंशुमत् त्रियुगस्य भगवतः सपुलहर्षकर सपुलकप्रमोदावहं 'पुलस्स्यात्पुलके पुंसि विपुले वाच्यलिङ्गकः' इति मेदिनी। विपुलं विशालं स्त्यानानां स्निग्धानां 'स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि' इति मेदिनी। ऋतुभुजां वसिष्ठाः वसीयांसः श्रेष्ठाः तेषां लोकपालानामित्यर्थः । वसुशब्दः प्रशस्तवाची। तत आतिशायनिके इष्ठान वसिष्ठ इति रूपम् ।