SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ अलङ्कारमणिहारे कामवैरी तस्य रमणी गौरी तथा ईड्यं स्तुत्यं अतुलं असदृशं अळिकं ललाटं यस्य तत् विचापलं अचञ्चलशीलं वीक्ष्येति क्रियाया विशेषणं वा । असमी असशौ करौ पाणी यस्य तत् । शम ए मस्तीति शमिनः तेषां इनाः प्रभवश्शान्ताग्रण्य इत्यर्थः । विनताः सकला शमीनाः यस्य यस्मिन्वा तत्तथोक्तं वृषाद्रिस्थं मिथुनं श्रीश्रीनिवासरूपं स्त्रीपुंसात्मकं द्वंद्वं वीक्ष्य दृष्ट्या ध्यात्वा वा कर्के कल्कं रलयोरभेदात्पापं 'कल्कोsस्त्री शमलैनसोः' इत्यमरः । तदस्यास्तीति कर्की स न भवतत्यिकर्की विनष्टाश्लिष्टपूर्वोत्तराघः एषः अहं स्यामिति योजना | भवेयमित्यर्थः ॥ 238 प्रकृतानन्वयवती अक्रमा यथा मधुरामा यास्तासां दाता कांचिच्छुचं विजितकाशी । सदयोध्यातोऽस्तु वहन् हृदि नतसद्वारकामवन्तीं लक्ष्मीम् ॥ १८०२ ॥ याः मधोः तन्नाम्नोऽसुरस्य रामाः स्त्रियः तासां कांचित् शुचं वैधव्ययुक्तं शोकं दाता । ददातेस्तृन् । मधुदैत्य संहर्तेति भावः । विजितेन विजयेन भावे क्तः काशत इति विजितकाशी काशतेणिनिः वानरा जितकाशिनः' इतिवत् । नताः सर्वा बारा: निवहाः यस्यां सा नतसद्वारका तां अवन्तीं सर्वलोकपालयित्रीं लक्ष्मी हृदि वहन् अतएव सदयः पुमान् परमपुरुषः श्रीनिवास इति भावः । ध्यातः अस्तु । मयेति शेषः । अत्र - " अयोध्या मधुरा माया काशी काञ्चित्वन्तिका । पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥ इति प्रसिद्धक्रमपाठानां क्रमव्यतिक्रमेण न्यसनम् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy