SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ रत्नावळीसरः (७७) 237 इदं कस्यचिदैहिकापवर्गिकपुरुषार्थ प्रार्थयितुर्भक्तस्य वचनम् । हे मधुहर मधुवैरिन् ननु माधव हे श्रीनिवास । सः त्वं घना नपश्चर्या यस्य तं मा मां भद्राणां गजविशेषाणां समूहो भाद्रं अश्वानां समूहः आश्वं उभयत्र सामूहिकोऽण् । ताभ्यां युज्यत इति भाद्राश्वयुजः इगुपधलक्षणः कः । ऊर्ज. स्वलः बलिष्ठश्च सहायः यस्य स तथोक्तः। तस्य भावः तत्ता तां इष्यते गच्छतीति भाद्राश्वयुजोर्जस्वलसहायतैषः तं 'इषगतो' दिवादिः तस्मात्कर्मण्यण् । चतुरङ्गसेनायुक्तमहासहाय . शालिनमित्यर्थः । एतेन ऐहिकसमृद्धिर्थिता । शुक्रः वह्नि 'शुक्रस्स्याद्भार्गवे ज्येष्ठमासे वैश्वानरे पुमान्' इति मेदिनी। तमिव शुचि शुद्धं अनेनापवर्गसाधनसर्वप्रकारशुद्धिमत्ता सूचिता। 'शुचिश्शुद्धेऽनुपहते शृङ्गाराषाढयोस्सिते' इति विश्वः । नभः स्सदां अर्चिरादिकानामातिवाहिकानां देवानां मान्यं पर्यवसाने तैस्सेव्यमपि · तनुयाः । ‘भुक्त्वा च भोगानखिलानन्ते हरिपदं प्रजेत्' इत्युकररीत्या ऐहिकसाम्राज्यानुभवपूर्वकमन्ते निश्श्रेयससाम्राज्यानुभवशालिनमपि कुर्वीथा इति भावः । अत्र 'मधुश्च माधवश्च शुक्रश्च शुचिश्च' इत्यादिश्रुतिस्मृत्यादिपठितानां मधुमाधवादीनां द्वादशानां मासानां क्रमो निबद्धः ॥ यथावास्यामेष वृषाद्रिस्थं मिथुनमकर्यङ्गजारिरमणीड्यमहम् । अतुलाळिकं विचापलमसमकरं वीक्ष्य विनतसकलशमीनम् ॥ १८०१ ॥ अत्र ज्यौतिषादिप्रसिद्धसहपाठानां मेषवृषादिमीनान्तानां द्वादाशाना राशीनां मुद्रालङ्कारविधया क्रमेण वर्णनम् । अङ्गजारिः
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy