SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ रत्नावळीसर: (७७) अस्मद्वचनानि संततं दिव्यमङ्गळविग्रहं परं ब्रह्म पुरुषोत्तमं श्रीनिवासमेव परिचिन्वताम् । तद्विषयकप्रबन्धानेव प्रणयन्तामिति भावः । अत्र श्रुतिप्रसिद्ध सहपाठानां भूरादिसप्तव्याहृतीनां क्रमेण विन्यासः । व्याहृतय इत्यनेन तादृशसूच्यार्थसूचनं चेति पूर्ववदेव मुद्राशिरस्कत्वम् ॥ यथावा 235 अरुणाब्जवर्णमङ्गळ सौम्याङ्गिरसावभासित नुहसिते । असिताक्षि मातराहुलकेऽतुल्याऽनवग्रहेति त्वाम् ।। १७९८ ॥ " अरुणान्जस्य वर्ण इव वर्णो यस्य तत् 'पद्मवर्णाम्' इति श्रुतेः । तथोक्तं मङ्गळं सौम्यं सुन्दरं 'सौम्यं तु सुन्दरे सोमदैवते' इत्यमरः । तादृशं अङ्गं यस्यास्सा तथोक्ता तस्यास्संबुद्धिः 'अङ्गगात्र' इति ङीष् । रसेन शृङ्गाररसेन दयारसेन वा अवभासि प्रकाशमानं न तु 'स्मयन्निव नृपो हन्ति' इतिवत्परातिसंधायकं, तनुहसितं मन्दहासो यस्यास्सा तथोक्ता । अनेन भगवन्मन्दहसितादप्यस्या मन्दहसितं गुणवत्तरमिति द्योतितम् । तद्धि 'हासो जनोन्मादकरी च माया इत्युक्तरीत्या जनोन्मादकांरिमायारूपं तस्यास्संबुद्धिः रसावभासितनुहसिते । हे असिताक्षि ! ' तं चेयमसितेक्षणा' इत्युक्तेः । हे मातः ! त्वां अतुल्या असहक्षा अनवग्रहा अप्रतिबन्धा सर्वव्यापिनीत्यर्थः । ग्रहो दृष्टिधे प्रतिबन्धे गजाळिके' इति मेदिनी । यद्वा अनवग्रहा निरङ्कुशस्वातन्त्रया अपर्यनुयोज्यस्य भगवत्स्वातन्त्र्यस्यापि तदधीनत्वात् । यथोक्तं ' यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलम्' इत्यादि । इति वदन्ति सन्त इति शेषः । 6 अव
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy