SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 234 अलंकारमणिहारे लवणाशब्दः स्वाभाव्यात् स्त्रीलिङ्गः लावण्यवाची । 'लवणैव लावण्य५' इति लावण्यश्रिय इव शेषमङ्गनायाः' इत्यादौ मल्लिनाथादिभिस्तत्रतत्र व्याख्यातत्वात् । ' लवणो रसरक्षोऽधिभेदेषु लवणा विषि, इति विश्वः । तया शालत इति लवणाशाली । क्षुभितः असुरेन्द्राणां हिरण्यकशिपुनरकप्रभृतीनों राज्यमेव उदधीशः समुद्रराजः येन तादृशो भुज एव दण्डः मन्थानदण्डो यस्य सः नलिनाक्ष्या श्रिया राजितं हृत् वक्षः यस्य सः सप्तसंख्याकानां भुवननां भूरादिलोकानां निधिः जलजाक्षः जयतु । अत्र ‘लवणेनुसुरासर्पिर्दधिक्षीरजलार्णवाः' इति पुराणादिप्रसिद्धसहपाठानां सप्तानामुदन्वतां क्रमेण प्रतिपादनमिति पूर्वोदाहरणेभ्यो विशेषः । सप्तभुवननिधिरिति पदेन सूच्यसमुद्रसूचनान्मुद्रा च ॥ यथावा -- भूरिदयं जलधिभुवः प्रियं सुवर्णाश्रमहरधिपबिम्बस्थम् । सुजनोग्रतपागम्यं व्याहृतयो नोऽभिदधतु सत्यं देवम् ॥ १७९७ ॥ नः अस्माकं व्याहृतयः व्याहाराः भूरिदयं निरवधिककृपं, तत्र हेतुः जलधिभुव: प्रियमिति। अत्र 'नित्यश्रीब्रध्नबिम्बे' इत्याचार्यश्रीसूक्तिस्स्मर्तव्या। अतएव सुवर्णाभं अहरधिपबिम्बस्थमिति तदुपस्कारकम् । अत्र ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुपः' इत्यन्तरादित्यविद्योक्तं दिव्यात्मविग्रहरूपमनुसंहितम् । सुजनानां सतां उग्रेण तीवेण तपसा गम्यं प्राप्यं, सत्य निरुपा. धिकसत्तायोगिनं 'सत्यं ज्ञानम्' इति श्रुतेः । मुक्तामुक्तनियन्तारं वा 'अथ यत्तत्सदमृतं अथ यत्ति तन्मर्त्य अथ यद्यं तेनोभे यच्छति' इति दहरविद्यायां श्रवणात् । देवं नारायणं अभिधतु वदन्तु
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy