________________
रत्नावळसिरः (७७)
231
सुकलः दाता भोक्ता च 'सुलको दातृभोक्तरि' इत्यमरः । भयं स्वस्य स्वाश्रितानां च त्रासं हतु क्षमः शक्तः भीताभयदातत्यर्थः । भानुमदंशुभिः श्रीमत् उज्ज्वलं यत्सरसिजं तदिव लोचनं यस्य तस्य संबीद्धः। अत्र कामक्रोधलोभमोहमदमत्सराणां षण्णां क्रमेण न्यास इति पूर्वाभ्यो विच्छित्तिशालिनीयम् ॥
यथावा - काममवक्रो धमैर्विमलो भगवन् भवेत्तमोहतिशीलः । श्रमदमन नमत्सरसिजभव तव भक्तो जितारिषडुर्गश्च ॥ १७९२ ॥
श्रमदमनः सांसारिकखेदविमोचनः तस्य संबुद्धिः। नमन् सरसिजभवः ब्रह्मा यस्य सः तस्य संबुद्धिः हे भगवन् ! तव भक्तः कामं अवक्रः अकुटिलशीलः । धर्मैः सामान्यैर्विशेषैश्च धर्मैः विमलः निर्मलः ‘धर्मेण पापमपनुदति' इति श्रुतेः। अतएव तमसः तमोगुणस्य हतिः निरासः तस्यां शीलं यस्य स तथोक्तः । जितः अरिषडुर्गः कामादिः येन स तथोक्तश्च भवेत् ।
न काधो न च मात्सर्य न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ इत्युक्तेरिति भावः। अत्रापि प्रकारान्तरेण कामक्रोधादीनामेव क्रमेण ग्रथनम् । ईदृशविशेषरूपसूच्यार्थस्य जितारिषवर्ग इत्यनेन सूचनान्मुद्रा चेति विशेषः ॥
यथावा
सुश्लिष्टसंधिविग्रहमिभपतियानं शरासनसनाथम् । राममभिवीक्ष्य तेन प्रेप्सन्तोऽद्वैधमाश्रयन्मुनयः ॥ १७९३ ॥