________________
अलङ्कारमणिहारे
सुश्लिष्टाः संघयः संधिबन्धाः यस्य तादृशो विग्रहो यस्य तम् । अनेन वक्ष्यमाणमुनिजनमानसाकर्षकस्सौन्दर्यातिशयस्सूचितः । यथोच्यते-
232
अङ्गप्रत्यङ्गकानां स्यात्संनिवेशो यथोचितम् । सुस्निग्धसन्धिबन्धो यस्तत्सौन्दर्य मितीर्यते ॥
इति । इभपतेः यानमिव यानं यस्य तम् । शरासनसनाथं रामं अभिवीक्ष्य मुनयः तेन रामेण सह अद्वैधं गाढालिङ्गनेनैकीभाव प्रेप्सन्त सन्तः । तं आश्रयन् दण्डकारण्यं प्रविष्टस्य भगवतो दाशरथेस्सौन्दर्येण मोहिताः वनिता इव मुनयस्तमालिङ्गितुमु त्सुका बभूवुरिति पद्मपुराणकथाऽत्रानुसंधेया । यद्वा तेन अद्वैधं अविवादं प्रेप्सन्तस्तमाश्रयन् 'अविवादस्तु तस्यैव पदयोरात्मनोsर्पणम्' इत्युक्तरीत्या तच्चरणारविन्दे अत्मरक्षाभरार्पणमभीसन्त आश्रयन्नित्यर्थः । अत्र 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ' इति प्रसिद्ध सहपाठानां संध्यादीनां क्रमेण षण्णां न्यसनम् ॥
यथावा
,
――
सुरभीतिहरभुजोष्मा शरवर्षासारविशमिताशरदावः । परमहिमानीको यो दिशिदिशि शिरसा नमामि तं दाशरथिम् ।। १७९४ ।।
यः सुरभीतिहरः भुजोष्मा बाहुप्रतापः यस्य शरवर्षासार: बाणवर्षासार एवं जलवर्षासारः तेन विशमितः आशराः निशिचरा एव दावा यस्य परमहिमा अनीकः सैन्यं यस्य पक्षे परमा हिमानी हिमसंहतिः यस्य सः परमहिमानीकः । 'नद्दयतश्च इति कप् । तं दाशरथिं दिशिदिशि शिरसा नमामि नमः
6