________________
230
अलङ्कारमणिहारे
हे अब्जाक्ष! नृणां यहव्यं स्वार्थमेव सत् तव पदार्ज नालिङ्गति त्वचरणाम्भोजार्पितं न भवतीत्यर्थः । तद्रव्यं संख्यातिगं अपरिमितमपि विदुषां ब्रह्मविदा प्रीतिकारकं न स्यात् । व्यर्थमेव तदिति भावः । अत्र स्वार्थद्रव्यलिङ्गसंख्याकारकाणां प्रातिपदिकार्थानां शाब्दिकगोष्ठीप्रसिद्धयनुसारतः ऋमिकत्वम् ॥
यथावा
अविषयमविशयमागमवचसामपि पूर्वपक्षमिह तमसाम् । लोकोत्तरफलदं त्वां जगतामधिकरणमाश्रये भगवन् ॥ १७९० ॥
हे भगवन् ! आगमवचसामधि अविषयं अगोचरं तमसां अज्ञानानामेव तिमिराणां पूर्वपक्षं शुक्लपक्षं तन्निर्मूलयितामिति भावः । लोकोत्तरं यत्फलं निश्श्रेयसरूपं तद्ददातीति तथोक्तं जगतां अधिकरणं आधारं त्वां अविशयं निस्संदेहं यथा तथाऽऽश्रये । अत्र
विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । प्रयोजनं च पञ्चैते प्राञ्चोऽधिकरणं विदुः॥
इति पूर्वोत्तरमीमांसाप्रसिद्धाधिकरणाङ्गपञ्चकस्य क्रमेण न्यासः । अधिकरणमित्यनेन सूचनीयार्थसूचनं च ॥
यथावा
कामं जितशको धनविभवैस्सुकलो भयं क्षमो हर्तुम् । भानुमदंशुश्रीमत्सरोजलाचन भवेद्भवदृष्टः ॥ १७९१ ॥