________________
रत्नावळीसरः (७७)
227
कारः साचिव्यं यया सा तथोक्ता श्रीमती लीला सारथ्यलीला यस्य स तथोक्तः नीलोत्पलोज्ज्वलः स पुमान् अवतु । मामिति शेषः। अत्र ‘अरविन्दमशोकं च' इत्यादिप्रसिद्धक्रमपञ्चबाणन्यसनम् ॥
यथावाप्राणयितारं स्वकथापानविधातृन्पिशङ्गसंव्यानम् । कलयेय मुदाऽनन्तम् समानयन हृदयपुण्डरीकं तम् ॥ १७८६ ॥
स्वकथापनविधातन् जनान् प्राणयितारं । पिशङ्गसंव्यानं . पीताम्बरोतरीयं 'संव्यानमुत्तरीयं स्यात्' इत्यमरः । तं सकललोकवेदप्रसिद्धं अनन्तं भगवन्तं हृदयपुण्डरीकं समानयन् प्रापयन् सन् मुदा कलयेय इति योजना । अत्र श्रुत्यादिप्रसिद्धानां प्राणापानव्यानोदानसमानानां क्रमिको न्यासः॥
यथावा
शब्दैकगम्यमुज्झितदोषस्पर्श निरूपणातिगसुगुणम् । तामरसनयन तनुयां सुभगं धर्मेण चेतसो विषयं त्वाम् ॥ १७८७ ॥
हे तामरसनयन! उज्झितदोषस्पर्श निरूपणातिगाः वामनसाविषयाः सुगुणाः यस्य तं 'यतो वाचो निवर्तन्ते' इति श्रुतेः । अनेन पदत्रितयेन ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी स एष सर्वेभ्यः पाप्मभ्य उदितः। स एष ये चास्मात्पराञ्चो लोका. स्तेषां चेष्टे देवकामानाम् ' इत्यन्तरादित्यविद्योक्तं दिव्यमङ्गळविग्र.