________________
226
अलङ्कारमणिहारे
यथावा --
कामं दारादिमजुषमपारिजातं श्रितं ससन्ता नसुखम् । सामोदं कल्पयसे हरिचन्दन दैवतरुचिरश्रीदस्त्वम् ॥ १७८४॥
हे हरिचन्दन ! हरिरेव चन्दनः तस्य संबुद्धिः। त्वं दैवतानामपि रुचिरा रमणीया तैरपि श्लाध्यति यावत् । या श्रीः संपत् शोभा वा तां ददातीति तथोक्तस्सन् । हरिचन्दनेत्यनेन देवतरुविशेषोऽपि गृह्यते। तदा दैवतानां रुचिरां श्रियं ददातीति तथोक्त इत्यप्युपस्कार्यम् । श्रितं स्वाधितं जनं काम पप्तिं यथातथा दारादिमान् जुषतीति तं तथोक्तं आदिमशब्देन बन्ध्वादिगृह्यते । अपास्तं अरिजातं वैरिबृन्दं येन तं अपारिजातं संतानसुखेन सह वर्तत इति ससंतानसुखं अतएव सामोदं सानन्दं ससौरभं च । हरेश्चन्दनतया रूपितत्वादिति भावः । कल्पयसे रचयसि । स्वोपासितारं सर्वप्रकारविभवजुषं तनोषीति भावः। अत्र मन्दारपारिजातादीनां पश्चानां देवतरूणां क्रमेण न्यसनम् । देवतरु इति पदैकदेशेन श्लोकघटितदेवतरुरूपसूच्यार्थस्यापि सूचनान्मुद्रालङ्कारावतंसितेयमिति पूर्ववदेवानुसंधेयम् ॥
यथावा
चरणारविन्दशरणगमशोकयनात्मचरमवचसा पार्थम् । कृतसहकारश्रीमल्लीलो नीलोत्पलोज्ज्वलोऽवतु स पुमान् ॥ १७८५ ॥
चरणारविन्दशरणगं पार्थ आत्मचरमवचसा 'सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः' इति वचनेन अशोकयन् कृतः सह