SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ यथावा रत्नावळीसर: (७७) 223 धन्यश्चातकधर्मा यस्तत्प्रीत्यर्थमेव कृतकर्मा | कामं तमम्बुजाक्षं ध्यायति सानन्दबाष्पपरिमोक्षम् ॥ १७७८ ॥ चातकस्य धर्म इव धर्मः ऐकान्त्यरूपो यस्य स तथोक्तः । पुमान् चातकवृत्तिः प्रपन्न इत्यर्थः । ' प्रपन्नश्चातको यद्वत्' इति स्मरणात् । धन्यः । अन्यत्सुगमम् । अत्रापि चतुर्षु चरणेषु क्रमेण धर्मार्थकाममोक्षाणां चतुर्णी पुरुषार्थानां पूर्ववदेव प्रतिपादनम् ॥ यथावा सामजवरदो दानवभेदपटुर्दितिसुतेषु धृतदण्डः । भगवन्नुपायभूतो भव त्वमेवादरात्तव प्राप्तै। ॥ अत्रापि सामदानभेददण्डानां प्रकृतान्वयं विना क्रमेण न्यसनम् । उपायभूत इति प्रकृतार्थपरेण पदेनास्मिन् पद्ये उपदर्शितोपायनामानि निबद्धानीति सूच्यार्थस्यापि सूचानान्मुद्रालंकारश्चेति तच्छेखरितेयं रत्नावळीति विशेषः ॥ यथावा ब्रह्मनुतो नलिनाक्ष त्रासहरस्फाटिकत्विषा वै श्येतः । आशूद्रावितदुरितश्चातुर्वण्यै धराधरः प्रथयति ते ।। १७८० ॥ हे नलिनाक्ष ! ब्रह्मणा चतुर्मुखेन नुतः । त्रासहरः भयहारी । स्फाटिकत्विषा श्येतः श्वेतः । ' शुक्लशुभ्रशुचिश्वेतविशदश्येत
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy